पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१२१

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०६
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

॥ अथ हलन्तस्त्रीलिङ्गे मकारान्तप्रकरणम् ॥

किम कादेशे टाप् । का, के, का । सर्वावत् ।

४४१ । यः सौ । (७-२-११०)

इदमो दस्य यः स्यात्सौ । * इदमो म ' (सू ३४३) । इयम् । त्यदाद्यत्वं, टाप् । “दश्च' (सू ३४५) इति म । इमे, इमा ' । इमाम्, इमे, इमा ; । अनया । “हलि लोप ' (सू ३४७) । आभ्याम् । आभ्याम् । आभ्याम् । आभि. । अस्यै । अस्या , अनयो , आसाम् । अस्याम्, अनयो आसु । अन्वादेशे तु । एनाम्, एने, एना । एनया । एनयोः । एनयोः ।

इति मान्ता


अथ मकारान्ता निरूप्यन्ते । किमः इति । किम्शब्दात् स्त्रीलिङ्गाद्विभक्तौ किम क ' इति प्रकृते कादेशे कृत अदन्तत्वात् टाबित्यर्थ । सर्वावदिति ॥ सर्वाशब्द वदित्यर्थ । “सर्वनाम्रो वृत्तिमात्रे पुवद्राव ' इति न । शब्दस्वरूपपरस्य गौणतया कदाऽपि सर्वनामत्वाभावादिति भाव । अथ इदम्शब्दस्य स्त्रीत्वे विशेषमाह । यः सौ ॥ “इदमो म इत्यत इदम इत्यनुवर्तते, “दश्च' इत्यत द इति च षष्ठयन्तमनुवर्तते । तदाह । इदमो। दस्येति । पुसि तु नेद प्रवर्तते । ‘इदोऽय् पुसि' इति विशिष्य विधे । नापि क्लीबे । तस्य सो लुका लुप्तत्वात् । ततश्च परिशेषात् स्त्रियामेवेदम् । इयमिति । इदम् स् इति स्थिते, दका रस्य यत्वे, इयम् स् इति स्थिते, त्यदाद्यत्व बाधित्वा “इदमो म ' इति मकारस्य मकारे कृते हल्ङयादिना सुलोप इति भाव । इदम् औ इति स्थिते प्रक्रिया दर्शयति । त्यदाद्य त्वमिति । यदाद्यत्वे सति, पररूप, अदन्तत्वात् टापि, “दश्च' इति दकारस्य मत्वे, इमा औ इति स्थिते, “ औड आप ’ इति शीभावे, आद्गुणे इमे इति रूपम्। इमाः इति । जसि त्यदा द्यत्व, पररूपम्, टाप्, “दश्च' इति म , पूर्वेसवर्णदीर्घ इति भाव । अत्र विभक्तौ सत्या त्यदाद्यत्व, पररूप, टाप् च सर्वत्र विभक्तौ भवन्तीति बोध्द्यम् । इमा इत्यत्र इमा अस् इति स्थिते पूर्वसवर्णदीर्घ । ‘जस शी' इति तु न । टापि कृते अदन्तात् परत्वाभावात् । इमा मिति । अत्वपररूपटाब्मत्वेषु कृतेषु ‘आमि पूर्व' इति भाव । इमे इति ॥ औटि औवत् । इमाः इति । अत्वपररूपटाव्मत्वेषु पूर्वसवर्णदीर्घ । स्त्रीत्वान्नत्वाभाव इति भाव । अन येति । इदम् आ इति स्थिते, अत्व, पररूपम्, “ अनाप्यक ' इति इद् इत्यस्य अन् आदेश । अन् आ इति स्थिते, ‘आडि चाप ' इत्येत्वे, अयादेश इति भाव । टा प्रभृत्यजादौ सर्वत्र अन् आदेश इति बोध्द्यम् । हलेि लोपः इति ॥ भ्यामादौ हलेि इद् इत्यस्य लोप इत्यर्थ । आ भ्यामिति । इदम् म्याम् इति स्थिते, इदो लोपे, अत्वे, पररूपे, टापि च रूपामिति भाव ।