पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१२२

एतत् पृष्ठम् परिष्कृतम् अस्ति


सकारान्तप्रकरणम्]
३०७
बालमनोरमा ।

॥ अथ हलन्तस्त्रीलिङ्गे जकारान्तप्रकरणम् ॥

ऋत्विग्-' (सू ३७३) आदिना सृजे क्विन् अमागमश्च निपातितः। स्रक्-स्रग्, स्रजैौ, स्रज. । स्रग्भ्याम् । स्रक्षु ।

इति जान्ता

॥ अथ हलन्तस्त्रीलिङ्गे द्कारान्तप्रकरणम् ॥

त्यदाद्यत्वं टाप् । स्या, त्ये, त्या । एवं तद्, यद्, एतद् ।

इति दान्ता ।


३०७ आभिरित्यप्येवम् । अस्यै इति। इदम् ए इति स्थिते, अत्वपररूपटाप्सु, स्याडागमे, हूस्वत्वे , इदो लोप इति भाव । अस्या इत्ययेवम् । अनयोरिति । इदम् ओस् इति स्थिते, इदम इद अनादेशे, अत्वपररूपटाप्सु, ‘आङि चाप' इत्येत्वे, अत्यादेश इति भाव । आासामिति इदम् आम् इति स्थितें, अत्वपररूपटाप्सु, सुटि, इदो लोप इति भाव । अस्यामिति ॥ इदम् इ इति स्थिते, अत्वपररूपटाप्सु , डेरामि, स्याडागमे, हूस्वत्वे, इदो लोप इति भाव । आस्विति ॥ इदम् सु इति स्थिते, अत्वपररूपटाप्सु, इदो लोप इति भाव । अन्वादेशे त्विति । 'द्विती याटौस्वेन ' इत्येनादेशे, टापि रमावद्रूपाणि इति भाव ॥

इति मान्ता ।

अथ जकारान्ता निरूप्यन्ते । स्रज्ञ्शब्द व्युत्पादयति । ऋत्विगिति ॥ ‘सृज विसर्गे' अस्मात् क्विन्, ऋकारात् पर अमागम, मकार इत्, ऋकारस्य यण् रेफ, स्रज् शब्द स्त्रीलिङ्ग । “माल्य माला स्रजो मूर्धि ” इत्यमर । स्रक्-स्रगिति ।। ‘क्विन्प्रत्ययस्य कु ' इति कुत्व जश्त्वचर्त्वे इति भाव ॥

इति जान्ता ।

अथ दकारान्ता निरूप्यन्ते ।त्यद्शब्दस्य प्रक्रिया दर्शयति । त्यदाद्यत्वमिति ।

विभक्तौ, अत्व, पररूपे, टापि, त्या इति रूपम् । सर्वत्र तत सर्वावद्रूपाणि । सौ तु 'तदो स सौ ' इति तकारस्य स इति विशेष । एवमिति । तद् यद् एतद् एतेभ्य विभक्तौ अत्वपररूपटाप्सु सर्ववत् रूपाणि । तच्छब्दस्य तु तकारस्य सत्वम् । एतच्छब्दस्य तु तकारस्य सत्वे “ आदेशप्रत्ययो ' इति षत्वमिति विशेष ॥

इति दान्ता ।