पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१२५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१०
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

अमू, अमू’ । अमुया, अमूभ्याम्, अमूभि । अमुष्यै, अमूभ्याम्, अमूभ्य अमुष्या । अमुष्या., अमुयो , अमूषाम् । अमुष्याम्, अमुयो , अमूषु

इति सान्ता

इति हलन्तस्रीलिङ्गप्रकरणम्


पररूपे, टापि, औड शीभावे, आद्गुणे, अदे, इति स्थिते, एकारस्य दीर्घत्वादूत्व दस्य मत्वचेत्यर्थ । विभक्तौ सत्याम् अत्व, पररूप, टाबित्येतत् सर्वत्र ज्ञेयम्। अमूरिति ॥ जसि अत्वपररूपटाप्सु, पूर्वसवर्णदीर्घ, ऊत्वमत्वे, टापि सति, अदन्तत्वाभावात् जसश्शीभावो न। एकाराभावान्नेत्त्वम् । अमूमिति ॥ पुवत्, ऊत्वन्तु विशेष । अमू इति ॥ औटि औवत्। अमूरिति । शसि जसीव रूपम् । स्त्रीत्वान्नत्वाभाव । अमुयेति । अदस् आ इति स्थिते अत्वपररूपटाप्सु, “ आडि चाप ' इत्येत्वे, अयादेशे, उत्वमत्वे इति भाव । अमूभ्यामिति अत्वपररूपटाप्सु, ऊत्वमत्वे इति भाव । एवममूभिरिति । अमुष्यै इति ॥ अदस् ए इति स्थिते, अत्वपररूपटाप्सु, स्याङ्ढ्रस्वौ , उत्वमत्वे, षत्वमिति भाव । अमूभ्य इत्यपि भ्यावत् । टापि अदन्तत्वाभावादेत्वन्न। अमुष्या. इति ॥डसो डेवत्,रुत्वाविसर्गौ तु विशेष । अमुयोरिति ओसि अत्वपररूपटाप्सु, “ आडि चाप ' इत्येत्त्वे, अयादेशे, मुत्वमिति भाव । अमूषामिति ॥ आमि, अत्वपररूपटाप्सु, सुटि, ऊत्वमत्वे, सस्य षत्वमिति भाव अमुष्यामिति ॥ अदस् इ इति स्थिते, अत्वपररूपटाप्सु, डेरामि, स्याडूढूस्वौ, मुत्वमिति भाव अमृष्विति ॥ सुपि, अत्वपररूपटाप्सु, ऊत्वमत्वे, षत्वमिति भाव

इति सान्ता

इति श्रीमद्वासुदेवदीक्षितविदुषा विरचिताया सिद्धान्तकौमुदीव्याख्याया बालमनोरमाख्याया हलन्तस्त्रीलिङ्गप्रकरण समाप्तम्