पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति


श्रीरस्तु ।

॥ अथ हलन्तनपुंसकलिङ्गे हकारान्तप्रकरणम् ॥

स्वमोर्लक् । दत्वम् । स्वनडुत्-स्वनडुद्, स्वनडुही । “चतुरनडुहो.–- (सू ३३१) इत्याम् । स्वनङ्कांहि । पुनस्तद्वत् । शेषं पुंवत् ।

इति हान्ता

॥ अथ हलन्तनपुंसकलिङ्गे वकारान्तप्रकरणम् ॥

  • दिव उत्', (सू ३३७) । अहर्विमलद्यु । अन्तर्वर्तिनी विभक्तिमा

श्रित्य पूर्वपदस्येवोत्तरखण्डस्यापि पद्संज्ञायां प्राप्तायाम् “उत्तरपदत्वे चापदा


अथ हलन्तनपुसकलिङ्गे हकारान्ता निरूप्यन्ते । सु शोभना अनड़ाह यस्य कुल स्येति बहुव्रीहौ स्वनडुद्दशब्दात् नपुसकलिङ्गात् सुबुत्पत्ति । ननु तत्र सौ परत ‘चतुरनडुहो ' इत्याम्, “अम् सम्बुद्धौ' इत्यम्, “सावनडुह ' इति नुम् च स्यात् । हल्डयादिना सुलोपेऽपि प्रत्ययलक्षणसत्वादित्यत आह । स्वमोर्लगिति ॥ परत्वात् हल्डयादिलोप बाधित्वा 'स्वमो नैपुसकात्' इति लुक् । ततश्च लुका लुप्तत्वेन प्रत्ययलक्षणाभावादामादि न भवतीति भाव । दत्वमिति ॥ 'वसुस्रसु' इत्यनेनेति शेष । दत्वविधे पदाधिकारस्थत्वेन तदन्तेऽपि प्रवृत्ते रिति भाव । नच तत्रापि “न लुमता' इति निषेधश्शङ्कय । दत्वस्य सुबन्तत्वरूपपदत्वनिमित्त कतया अङ्गकार्यत्वाभावादित्याहु । स्वनडुदिति ॥ दत्बे चत्वैविकल्प । 'उर प्रभृतिभ्य कम्' इति तु न शङ्कयम् । तत्र गणे अनङ्कानित्येकवचनस्यैव पाठादिति बहुव्रीह्यधिकारे मूल एव वक्ष्यते । स्वनडुही इति ॥ 'नपुसकाच' इत्यौडश्शीभाव । स्वनङ्कांहीति ॥ ‘जश सो शि ? इति शिभावे, तस्य सर्वनामस्थानत्वात् “वतुरनडुहो' इत्यामि, “नपुसकस्य झलच इति नुमि, ‘नश्च' इत्यनुस्वार इति भाव । अत्र यद्वक्तव्य तत्पुल्लेिंङ्गनिरूपणे उक्तम् ।

इति हान्ता ।

अथ वकारान्ता निरूप्यन्ते ॥ विमला दौ आकाश यस्य अह् इति बहुव्रीहौ, सुब्लुकि, विमलदिशब्दात् सोर्लक्। एतावत् सिद्धवत्कृत्य आह । दिव उदिति ॥ अहर्वि