पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
रेफ, मकारान्तप्रकरणम्]
३१३
बालमनोरमा ।

॥ अथ हलन्तनपुंसकलिङ्गे रेफान्तप्रकरणम् ॥

वा , वारी । अझलन्तत्वान्न नुम् । वारि । चत्वारि ।

इति रेफान्ता ।

॥ अथ हलन्तनपुंसकलिङ्गे मकारान्तप्रकरणम् ।।

  • न लुमता–’ (सू २६३) इति कादेशो न । किम्, के, कानि । इदम् ,

इमे, इमानि । “अन्वादेशे नपुसके एनद्वक्तव्य ' (वा १५६९) । एनन्, एने, एनानि । एनेन । एनयो । एनयो ।

इति मान्ता ।


अथ रेफान्ता निरूग्यन्ते । वारिति ॥ वार्शब्दो रेफान्तो नपुसकलिङ्ग । “आप स्स्त्री भून्नि वार् वारि” इत्यमर । वार्शब्दात् स्वमोर्लक्, रेफस्य विसर्ग, इति भाव । चत्वा रीति ॥ चतुर्शब्दे नित्य बहुवचनान्त, तस्य जश्शसोश्शि , तस्य सर्वनामस्थानत्वात् 'चतु रनडुहो " इति प्रकृते आम् । स च मित्त्वादन्त्यादच उकारात् पर, उकारस्य यण, अझ लन्तत्वान्न नुम् इति भाव ॥

इति रेफान्ता ।

अथ मकारान्ता निरूप्यन्ते । किम्शब्दात् स्वमोर्लुकि प्रत्ययलक्षणमाश्रित्य विभक्ति परकत्वात् कादेशमाशङ्कय आह । न लुमतेति ॥ सोरमश्चान्यत्र कादेशे सर्वशब्दवद्रूपाणीत्याह । के, कानीति ॥ इदमिति ॥ स्वमोर्लुकि रूपम्। ‘इदमो म, दश्च' इत्यादिविधयो न भवन्ति । ‘न लुमता' इति निषेधादिति भाव । इमे इति ॥ औडि अत्व, पररूपम्, ‘दश्च' इति दस्य म ‘नपुसकाच' इति शीभाव, गुण इति भाव । इमानीति ॥ जश्शसोश्शि, अत्व, पररूप, ‘दश्च' इति म, “नपुसकस्य झलच ' इति नुम्, “सर्वनामस्थाने च' इति दीर्घ इति भाव । अन्वा देशे नपुंसके एनद्वक्तव्यः इति ॥ 'इदमेतदो ' इति शेष । इदच अम्येवभवति । तथाच भाष्ये “एनदिति नपुसकैकवचने वक्तव्यम्” इति पठित्वा “कुण्डमानय प्रक्षालयैनत्” इत्युदाहृतम् । औट्शसो टश्च ओसोश्च 'द्वितीयाटौस्स्वेन ' इत्येनादेश एव इति मत्वा आह । एने इत्यादि । वस्तुतस्तु 'द्वितीयाटौस्स्वेनत्' इत्येव सूत्रयताम्। नपुसके अमो लुकि एनदिति सिध्ध्यति । एनम्, एनौ, एनान् । एनेन, एनयो, इति तु त्यदाद्यत्वेन सिद्धमिति भाष्ये स्थितम् । परमार्थतस्तु नपुसकैकवचने अमि एनदादेश । एनम्, एनौ, इत्याद्यर्थ 'द्वितायाटैस्स्वेन ? इत्यत्र एनादेशो विधातव्य । येन नाप्राप्तिन्यायेन एनदादेशस्य त्यदाद्यत्वापवादत्वेन त्यदाद्यत्वासम्भवादिति शब्देन्दुशेखरे स्थित भाष्यप्रदीपोद्योते प्रपश्चितश्च ।

इति मान्ता ।