पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१३२

एतत् पृष्ठम् परिष्कृतम् अस्ति


दकारान्तप्रकरणम्]
३१७
बालमनोरमा ।

णादिके ऋज्प्रत्यये बाध्ये । असृक्-असृग्, अमृजी, असृजि । “पद्दन (सू २२८) इति वा । असन्, असानि । असृजा-अस्ना, असृग्भ्याम्-अस भ्यामित्यादि । ऊर्क -ऊर्ग, ऊर्जी, ऊनर्जि । नरजाना सयोग. । 'बहूर्जि नुम्प्र तिषेध ' (वा ४३३१) । * अन्त्यात्पूर्वो वा नुम्' (वा ४३३२) । बहूर्जि-बहूर् जि वा कुलानि ।

इति जान्ता ।

॥ अथ हलन्तनपुंसकलिङ्ग दकारान्तप्रकरणम् ।

त्यत्-त्यद्, ये, त्यानि । तत्-तद्, ते, तानि । यत्-यद्, ये, यानि । एतत्-एतद्, एते, एतानि । अन्वादेशे तु एनन् । बेभिद्यते क्विप् । बेभित्

सति असृक्छब्दो बोध्द्य इत्यर्थ । असृञ्जीति ॥ जश्शसो शि, झलन्तत्वान्नुम्, “नश्च' इत्यनुस्वार, तस्य परसवर्णो लकार इति भाव । असानीति ॥ शसश्शि, नान्तत्वाद्दीर्घ इति भाव । अस्नेति ॥ तृतीयैकवचने असन्नादेशे अल्लोप । असृग्भ्यामिति ॥ असन्ना देशाभावे कुत्वे जश्त्वमिति भाव । असभ्यामिति ॥ भ्यामादौ असन्नादेशे नलोप इति भाव । ऊर्गिति ॥ ‘ऊर्ज बलप्राणनयो' क्विप्, स्वमोर्लुक्, कुत्वेन ग, तस्य चर्त्वविकल्प इति भाव । ऊर्न्जीति ॥ जश्शसो शि, झलन्तत्वान्नुम्, स च मित्वादन्त्यादच ऊकारात् परो भवति । तदाह । नरजानां संयोगः इति ॥ बहूर्क्छब्दोऽपि प्रायेण ऊर्ग्वदेव। जश्शसो शिभावे कृते, झलन्तलक्षणनुमि ऊकारादुपरि प्राप्ते, “बहूर्जि प्रतिषेधो वक्तव्य ' 'अन्त्यात् पूर्व नुममेक इच्छन्ति' इति च वार्तिक प्रवृत्तम् । तदेतदर्थतस्सङ्ग्रह्णाति । बहूर्जीति ॥ बहूर्ज्शब्दे अन्त्यादच ऊकारात् उपरि नुम प्रतिषेधो वक्तव्य, किन्तु अन्त्याद्वर्णात् पूर्वो नुम् वा स्या दित्यर्थ । बहूर्जीति । जश्शसोर्नुमभावे रूपम् । बहूर्ञ्जीति ॥ जकारात् पूर्व रेफादुपरि नुमि कृते, श्चुत्वस्यासिद्धत्वात् “नश्च' इति तस्यानुस्वारे, तस्य परमवर्णे, जकारे रूप बोध्द्यम् । अत्र बहूर्जिप्रतिषेध इति प्रथमवार्तिक न कर्तव्यम् । 'नपुसकस्य झलच ' इति सूत्रस्य अच परो यो झल् तदन्तस्य क्लीबस्य नुम् स्यादिति व्याख्याने सति नुम एवात्राप्रसक्त्ते । न चैव सति वनानीत्यादावव्याप्तिश्शङ्कया । “इकोऽचि विभक्तौ' इत्यत अचीत्यनुवर्त्य अजन्तस्य क्लीबस्य सर्वनामस्थाने परे नुम् स्यादिति वाक्यान्तराश्रयणादिति भाष्ये स्थितम् । एवञ्च ऊर्कच्छब्दे शैौ

  • नरजाना सयोग ' इति मूल भाष्यविरुद्धत्वादुपेक्ष्यमेव । तत्र अच परस्य झल अभावेन

नुम अप्रसत्ते ॥ इति जान्ता । अथ दकारान्ता निरूयन्ते । त्यदिति ॥ त्यद्, तद्, यद्, एतद् एषा स्वमोर् लुका लुप्तत्वात् त्यदाद्यत्व, पररूप, “तदा स सौ' इति सत्वञ्च, न भवति । इतरत्र तु सर्वत्र त्यदाद्यत्वे पररूपे च अदन्तवद्रूपाणि, सर्वनामकार्यञ्च, इति बोध्यम् । अन्वादेशे त्वेनदिति ॥