पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१४३

एतत् पृष्ठम् परिष्कृतम् अस्ति


३२४
[हलन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

अन्तरा । अन्तरेण । ज्योक् । कम् । शम् । सहसा । विना । नाना । स्वस्ति । स्वधा । अलम् । वषट् । श्रौषट् । वौषट् । अन्यत् । अस्ति । उपांशु । क्षमा । विहायसा । दोषा । मृषा । मिथ्या । मुधा । पुरा । मिथो । मिथस् । प्रायस्। मुहुस्। प्रबाहुकम् । (प्रवाहिका) । आर्यहलम् । अभीक्ष्णम् । साकम् । सार्धम् । नमस् । हिरुक् । धिक् । अथ । अम् । आम् । प्रताम् । प्रशाम् । प्रतान् । मा । माड् । आकृतिगणोऽयम् ।


प्रयोजनाभावात् । सना, सनत्, सनात्, एतत्त्रय निये। उपधा भेदे । तिरस् अन्तद्वौं, तिर्यगर्थे, पराभवे च । अन्तरा मध्ये, विनार्थे च । अन्तरेण वर्जने । वस्तुतस्तु “ अन्तराऽन्त रेण युक्त' इति सूत्रे भाष्ये अन्तरा, अन्तरेण इत्यनयो निपातत्वोत्तेरनयो स्वरादिषु पाठ प्रक्षिप्त इति बोध्द्यम् । ज्योक् कालभूयस्त्वे, प्रश्रे, शीघ्रार्थे, सम्प्रति इत्यर्थे च । कम् वारिमूर्व निन्दासुखेषु । शम् सुखे । सहसा आकस्मिकाविमर्शयो । विना वर्जने । नाना अनेकविना र्थयो । स्वस्ति मङ्गळे। स्वधा पितृहविर्दाने। अलम् भूषणपर्याप्तिशक्तिवारणनिषेधेषु । वषट् , वौषट्, श्रौषट्, एतत्त्रय देवहविर्दाने। अन्यत् अन्यार्थे। अस्ति सत्तायाम्। उपसर्गविभक्ति स्वरप्रतिरूपकाश्च, इति वाद्यन्तर्गणसूत्रादेव अस्तिशब्दस्य विभक्तिप्रतिरूपकस्य अव्ययत्वसिद्धेरिह स्वरादिगणे तस्य पाठो व्यर्थ इति मतुप्सूत्रे भाष्यकैयटयो स्थितम् । उपांशु अप्रकाशोच्चारणे रहस्येच। क्षमा क्षान्तौ। विहायसा आकाशे। दोषा रात्रौ। मृषा, मिथ्या इद द्वय वितथे । मुधा व्यर्थे । पुरा अविरते, चिरातीते, भविष्यदासन्ने च । मिथो, मिथस् इद द्वय रहसि, सहार्थे च। प्रायस् बाहुळेये। मुहुस् पुनरर्थे। प्रबाहुकम् समकाल, ऊर्ध्वार्थे च । प्रवाहिका इति पाठान्तरम् । आर्यहलम् बलात्कारे । शाकटायनस्तु आर्येति प्रतिबन्धे, हलमिति निषेधानुवादयोरित्याह । अभीक्ष्णम् पौन पुन्ये । साकम् , साधम् इद द्वय महार्थे । नमस् नतौ । हिरुक वर्जने । धिक् निन्दाभर्त्सनया । अम् शैघ्रये, अल्पे च । आम् अङ्गी कारे। प्रताम् ग्लानौ। पशाम् समानार्थे। प्रतान् विस्तारे । अत्र प्रतान् इति नान्तस्य पुन पाठसामर्थ्यात् प्रताम्, प्रशाम् इति पूर्वयो ‘मो नो धातो' इति नत्वन्न। प्रशान् इति नान्त पाठस्तु साम्प्रदायिक । “कृन्मेजन्त 'इति सूत्रे भाष्यस्वरसोऽप्येवमिति शब्देन्दुशखरे स्थितम् । मा, माड् एतौ निषेधे । आकृतिगणोऽयमिति । ततश्च अन्येऽप्येवञ्जातयिका स्वरादिगणे ज्ञेया । तथाहेि, कामम् स्वाच्छन्द्ये । प्रकामम् अतिशये । भूयस् पुनरर्थे । साम्प्रतम् न्या य्ये। परम् कित्वर्थे । साक्षात् प्रत्यक्षे । साचि तिर्यगर्थे। सत्यम् अर्धाङ्गीकारे। मङ्क्षु, आशु इद द्वय शैघ्रये । संवत् वर्षे । अवश्यम् निश्चये । सपदि शैघ्रये । बलवत् अतिशये । प्रादुस्, आविस् इद द्वय प्रकाशे । अनिशम्, नित्यम्, सदा, अजस्रम् सन्ततम् एतत्पञ्चक सातत्ये । उषा रात्रौ । रोदसी द्यावाप्रथिव्यर्थे । ओम् अङ्गीकारे ब्रह्मणि च । अत्र अश्च उश्च म् चेति समाहारद्वन्द्वे, ब्रह्मवाची ओम्शब्द ब्रह्मविष्णुशिवात्मक ब्रह्मवाची । “ अवतेष्टिलोपश्च' इत्युणादिव्युत्पन्नस्तु ब्रह्मण्यङ्गीकारे चेति विवेक । ‘अवतेष्टिलोपश्च