पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/४

पुटमेतत् सुपुष्टितम्


आदन्त प्रकरणम् ]
१८९
बालमनोरमा ।

परत्वात् जरम् । जरसामित्यादि । पक्षे हलादौ च रमावत् । इह पूर्वविप्रतिषेधेन शीभाव कृत्वा सन्निपातपरिभाषाया अनित्यता चाश्रित्य ' जरसी' इति केचि दाहु । तन्निर्मूलम् । यद्यपि जरसादेशस्य स्थानिवद्भावेनाबन्ततामाश्रित्य 'औड आप ' (सू २८७) * आङि चाप ' (सू २८९) 'याडाप ' (सू २९०) ह्रस्वनद्याप –’ (सू २०८) ङेराम --' (स् २७० ) इति च पञ्चापि विधय प्राप्ता। एव नस्निश्पृत्सु।तथाप्यनल्विधावित्युक्तेर्न भवन्ति ।


ऽप्येत्त्वे प्रवृत्तस्य जरसादेशस्य नित्यतया तस्येव प्रवृत्ते। परान्नित्यस्य बलवत्त्वात्। कृते तु जरसि आवभावादेत्वन्न । डे जरसे । नचात्र जरा ए इति स्थिते जरसादेश बाधित्वा परत्वात् याटि वृद्धौ जराये इत्येव युक्तमिति वाच्यम् । अन्तरवत्वेन जरसादेशस्येव प्रवृत्ते । परादन्त रङ्गस्य बलवत्वात् । आप परस्य टिनस्सुपो विहितस्य याटो बह्वाश्रयत्वेन बहिरङ्गत्वात् । ङसिङसो जरस्। अत्रापि पूर्ववद्याट् न। जरसो 'एत्त्व बाधित्वा नित्यत्वात् जरस्। आमि जरसाम् । नन्वामि नुटि कृते अजादिविभक्त्यभावात् कथ जरसादेश इत्यत आह । आमि नुट. इति ॥ डा जरसि । परमपि डेराम याटश्च नित्यत्वादन्तरङ्गत्वाच्च क्रमेण बाधि त्वा जरस् । पक्षे हलादौ च रमावदिति ॥ जरमादेशाभावपक्षे हलादावपि रमावदित्यर्थ। मतान्तर दूपयितुमनुवदति। इह पूर्वेत्यादिना ॥ इह जराशब्दे जरा औ इति स्थिते शाभावमा श्रित्य जरसाति के चिदाहुरित्यन्वय । आश्रित्येत्यनन्तर जरसादेशे कृते इति शेष । ननु शीभाव बाधित्वा परत्वात् जरसादेश एव युक्त इत्यत आह । पूर्वविप्रतिषेधेनेति ॥ विप्रतिपेधे परमित्यत्र परशव्दस्य इष्टवाचितामाश्रित्य क्वचित् पूर्वस्य प्रवृत्त्याश्रयणेनेत्यर्थ । ननु आबन्तसन्निपातमुपजाव्य प्रवृत्तस्य शाभावस्य सन्निपातपरिभाषया आवन्तसन्निपात विघातकजरसादेशनिमित्तत्वन्न सम्भवतीत्यत आह । सन्निपातपरिभाषाया अनित्य ताञ्चेतितन्निर्मूलमिति ॥ पूर्वविप्रतिषेधाश्रयणस्य भाष्यपरिगणितेष्वप्रवृत्तेस्सन्निपात- परिभाषायास्सर्वत्रानित्यत्वाश्रयणे प्रमाणाभावाच्चेति भाव । स्यादेतत् । जरसौ, जरसामित्यत्र ओड आप, ह्रस्वनद्यापो नुट्' इत्यपेक्षया परत्वादस्तु जरसादेश । अस्तु च डेडसिडस्सु जरसे, जरस , इत्यत्र याटमन्तरङ्गत्वात् वाधित्वा जरसादेश । अस्तु च ङो जरसि इत्यत्र नित्यत्वादाम अन्तरङ्गत्वाद्याटश्च बाधित्वा जरसादेश । तथापि तस्य जरसादेशस्य स्थानि वत्त्वेन आबन्तत्वात् तमाश्रित्य एत्त्वशीभावयाङ्नुडागमा कुतो न स्यु । किञ्च अनेनैव न्यायेन नासिकाशब्दस्य निशाशब्दस्य पृतनाशब्दस्य च एत्त्वशीभावयाट्नुडागमान् बाधित्वा पद्दन्नो' इत्यादिना नस् निश् पृत् इत्यादेशेषु क्रमेण कृतेषु तेषा स्थानिवद्भावेन आबन्तत्वमा- श्रित्य एत्वशीभावयाट्नुडागमा प्रथम प्रसज्येरान्निति शङ्कते । यद्यपीत्यादिना ॥ परि हरति । तथापीति ॥ स्थानीभूतावन्ताश्रयविधय एते एत्त्वादिविधय । अतस्तेषु कर्तव्येषु जरसाद्यादेशाना स्थानिवत्त्व न सम्भवति । अनत्विधाविति तान्निषेधात् । ततश्च जरसाद्या- देशानामाबन्तत्वालाभात् एत्त्वादिविधयो न भवन्तीत्यर्थ । ननु अल्त्वस्याप्यकारादिधर्मपुर-