पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/४७

एतत् पृष्ठम् परिष्कृतम् अस्ति


२३२
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

३४२ । किमः कः । (७-२-१०३)

किम क स्याद्विभक्तौ । अकच्सहितस्याप्ययमादेश । क , कौ, के । कम्, कौ, कान, इत्यादि सर्ववत् ।

३४३ । इदमो मः । (७-२-१०८)

इदमा मस्य म स्यात्सा पर । त्यदाद्यत्वापवाद् ।


स्य’ इति मकारस्य भवति । तत्र सोर्हत्डयादिलोपे सति नकारस्य प्रातिपदिकान्तत्वात् पदान्त त्वाच्च‘न लोप प्रातिपदिकान्तस्य’ इति नलोपमाशङ्कय आह्। नत्वस्येति ॥ प्रशानिति ॥ खरा दिपाठेऽप्यस्य नाव्यत्वम् । सत्त्ववाचित्वात् । असत्त्ववाचित्वे तु स्वरादिपाठादव्ययत्वमेवेति भाव । प्रशान्भ्यामिति ॥ भ्यामादौ हाल 'स्वादिष्वसर्वनामस्थाने' इति पदत्वान्नत्वमिति भाव । इत्यादीति ॥ प्रशान्भि । प्रशामे प्रशान्भ्य । प्रशाम । प्रशाम, प्रशामो, प्रशा । माम् । प्रशामि, प्रशान्त्सु-प्रशान्सु । ‘नश्च' इति धुड़्विकल्प । अथ कायतेर्डिमिरिति निष्पन्न किं शब्द प्रष्टव्ये वर्तते । तस्य विशेषमाह । किमः क ॥ विभक्ताविति ॥ * अष्टन आ वि भक्तौ' इत्यतस्तदनुवृत्तेरिति भाव । ननु 'इम ' इत्येव सूत्रयताम् १ त्यदादीनामित्यनुवृत्तौ वचनविपरिणामेन त्यदादे इम अकारस्यादित्यर्थलाभात् । द्विपर्यन्तानामिति तु न सम्बच्द्यते । द्विपर्यन्तेषु त्यदादिषु इमोऽसम्भवात् । एवञ्च किशब्द इम इत्यस्य स्थाने अकारे सति क इत्य दन्तत्व सिद्भद्यति । नच “अलोऽन्त्यस्य' इति किशब्द इमो मकारस्यैव अकारस्स्यात् । ततश्च इकारस्य याणि क्य इति स्यादिति वाच्यम् । “नानर्थकेऽलोऽन्त्यविधि इति निषेधेन अलोऽन्त्य परिभाषाया अप्रवृत्तौ इम कृत्स्रस्य स्थाने अकारे सति क इत्यस्य सिद्धेरित्यत आह । अक च्सहितस्येति ॥ त्यदादेरिम अकारविधो * अव्ययसर्वनान्नाम्' इति किंशब्दस्य अकचि कृते ककिम् इति स्थिते इम अकारे कृते कक इति रूप स्यात् । ‘किम क' इत्युक्तौ तु साकच्क स्यापि किंशब्दस्य 'तन्मध्ध्यपतितस्तद्रहणेन गृह्यते ' इति न्यायेन किशब्दत्वात्तस्य कादशे सति क इत्येव रूप सिध्द्यतीति भाव । अत्र त्यदादीनामित्यनुवृत्य वचनविपरिणामेन त्यदा दे किम* क इति व्याख्येयम् । अतस्सर्वाद्यन्तर्गणकार्यत्वादुपसर्जनत्वे कादेशो न भवति । एवञ्च विभक्तयुत्पत्तौ कादेशे सर्वशब्दवद्रूपाणीत्याह । क’, कावित्यादि ॥ “मारुते वेधसि ब्रध्ने पुक्ति क’ क शिरोऽम्बुनो ?” इत्यमर । तत्र कशब्दस्य किंशब्दत्वाभावात् न सर्वनामत्वम् । वेधसि तु किंशब्दोऽप्यस्ति । तस्य सर्वनामत्वमस्ति नास्तीति पक्षद्वयम् “कस्येत्' इति सूत्रे भाष्ये स्थितम् । काय हविरित्यत्र यदि किम कादेश, यदि वा शब्दान्तरम् उभ यथापि कस्मा अनुबूहीति भवितव्यम् । सर्वस्य सर्वनामसज्ञा । सर्वश्च प्रजापति । प्रजापतिश्च क । अपर आह । उभयथापि कायानुब्रूहीत्येव सज्ञैषा तत्रभवत इति । अथ इदशब्दे विशेषमाह । इदमो मः ॥ साविति ॥ 'तदास्सस्सौ' इत्यतस्तदनुवृत्तेरिति भावः । “अलो ऽन्त्यस्य' इत्यन्त्यस्य मस्य मः । ननु मस्य मविधिर्व्यर्थ इत्यत आह । त्यदाद्यत्वापवादः