पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
मकारान्तप्रकरणम्]
२३५
बालमनोरमा ।

आभ्याम्, एभ्य । अस्य, अनया ; एषाम् । आस्मन् अनया ; एषु । ककारयोगे तु अयकम्, इमकै, इमके । इमकम्, इमकौ, इमकान् । इमकेन इमकाभ्याम् , इत्यादि ।


३५० । इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ । (२-४-३२)

अन्वादेशविषयस्येदमोऽनुदात्तोऽशादेश. स्यात्तृतीयादौ । अश्वचनं साकच्कार्थम् ।


ननु इद ए इति स्थिते स्मैभावात् परत्वादनादेशे ‘विप्रतिषेधे यद्वाधित तद्वाधितमेव' इतिन्यायेन पुन स्मैभावो न स्यादित्यत आह । नित्यत्वादिति ॥ कृते अकृतेऽपि अनादेशे प्रवृत्ति योग्यतया स्मैभावस्य नित्यत्वात् अनादेशात् प्रागेव स्मैभाव कृते अनादेशस्य हलि लोपेन बाध इति भाव । आभ्यामिति ॥ पूर्ववत् । एभ्यः इति ॥ त्यदाद्यत्व पररूपत्व हलि लोप “बहुवचने झल्येत्' इति एत्वञ्चेति भाव । अस्मादिति ॥ त्यदाद्यत्व, पररूपत्व हलि लोप, “डसिडयो ' इति स्मादिति भाव । अस्येति ॥ त्यदाद्यत्व, पररूपत्व, स्यादेश हलिलोपश्चेति भाव । अनयोरिति ॥ त्यदाद्यत्व, पररूपत्वम्, अनाप्यक, ‘ओसि च' इत्येत्त्वम् अयादेशश्चेति, भाव । एषामिति ॥ आमि त्यदाद्यत्व, पररूपत्व, सुट्, हलि लोप, एत्व षत्वे । अस्मिन्निति ॥ अत्व, पररूपत्व, स्मिन्, हलि लोपश्चेति भाव । एष्विति ॥ अत्व पररूपत्व, हलि लोप, एत्वषत्वे इति भाव । ककारयोगे त्विति ॥ “अव्ययसर्वनाम्नामकच् प्राक् टे ' इत्यनेन इदम्शब्दस्य अकचि सतीत्यर्थ । अयकमिति ॥ अकचि सति निष्पन्नस्य इदकम्शब्दस्य तन्मध्यपतितन्यायेन * इदमो म ? इत्यादाविदङ्ग्रहणेन ग्रहणान्मत्वादिकामिति भाव । “ अनाप्यक ” इति, “हलि लोप ” इति, ‘नेदमदसोरको ' इति, च नेह प्रवर्तते । ककारयोगे तन्निषेधादित्याशयेन आह । इमकेन, इमकाभ्यामिति ॥ इत्यादीति ॥ इमकै । इमकस्मै । इमकेभ्य । इमकस्मात् ॥ इमकस्य । इमकयो । इमकेषाम् । इमक स्मिन् । इमकेषु । इदमोऽन्वादेशे ॥ अन्वादेशे अश् इति च्छेद । अन्वादेशे इदम अश् स्यात् तृतीयादिविभक्तैौ स चानुदात्त इति स्पष्टोऽर्थ । “आशास्ते य यजमानोऽसो। आयु राशास्ते” इति प्रस्तुत्य “तदस्मै देवा राधन्ताम्” इत्युदाहरणम् । तत् आयुरादि अस्मे यज मानाय देवा साधयन्त्वित्यर्थ । अत्र अस्मै इत्युदाहरणम् । इद अस्मै इति स्थिते प्रकृतेरशादेशे अनु दात्ते सति ‘अनुदात्तौ सुप्पितौ' इति स्मै इत्यैकार अनुदात्त । तथाच स्मै इति सर्वानुदात्त । एव माभ्यामित्यादावपि हलादावुदाहरणम् । द्वितीयादावचि टौसोरेनादेशस्य विशिष्य विधानात् । ननु अनुदात्तत्वमेवात्र विधीयताम् । न त्वशादेशोऽपि । त्यदाद्यत्वे हलि लोपे च अस्मै, आभ्याम् इत्यादिरूपस्यान्वादेशऽपि सिद्धे । अत आह । अश्वचनं साकच्कार्थमिति । इमकाभ्या रात्रीरधीता, आभ्यामहरधीतम्” इति अत्रान्वादेशे इमकाभ्याम् इति न भवति । अत्र अ अ इति प्रश्लिष्टनिर्देशात् अनेनकाल्त्वात् सर्वादेशत्वसिद्धे. शित्करण न कर्तव्यम्