पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/५२

एतत् पृष्ठम् परिष्कृतम् अस्ति


नकारान्तप्रकरणम्]
२३७
बालमनोरमा ।

॥ अथ हलन्तपुल्लॅिङ्गे नकारान्तप्रकरणम् ॥

परत्वादुपधादीर्घ , हल्द्यादिलोप , ततो नलोप । राजा ।

३५२ । न ङिसम्बुध्द्योः । (८-२-८)

नस्य लोपो न स्यात् डौ सम्बुद्धौ च । हे राजन् । डौ तु छन्दस्युदा हरणम् । 'सुपा सुलुक्-' (सू ३५६१) इति डेर्लुक् । निषेधसामर्थ्यात्प्र त्ययलक्षणम् । * परम व्योमन् ' । डावुत्तरपदे प्रतिषेधो वक्तव्य.' (वा

बत्वात् नोपधावृद्धि । तस्मात् क्विप्, णिलोप, अपृक्तलोप । “ अनुनासिकस्य किझलो ' इति दीर्घ । सुगाण् इति रूपम् । सुगाणौ, सुगाण , इत्यादि । नच दीर्घे कर्तव्ये णिलोपाल्लोपयो स्थानिवत्व शङ्कयम् । दीर्घविधो तन्निषेधात् । क्वौ विधि प्रति तन्निषेधाच्च ॥ इति णान्ता ।


अथ नकारीन्ता निरूप्यन्ते । अथ राजन्शब्देविशेषमाह । परत्वादिति ॥ हल्डयादिलोपापेक्षया परत्वात् पूर्वमेव “सर्वनामस्थाने चासम्बुद्धौ' इति दीर्घ । ततो हल्डयादिलोप इत्यर्थ । नच 'विप्रतिषेधे यद्वाधित तद्वाधितमेव' इति न्यायात् कथमिह हल्डयादिलोप इति वाच्यम् । “पुन प्रसङ्गविज्ञानात् सिद्धम्' इति *विप्रतिषेधे यद्वाधितम् इत्यस्य असार्वत्रिकत्वादिति भाव । नलोपः इति ॥ “न लोप प्रातिपदिकान्तस्य' इति नकारस्य लोप इत्यर्थ । हे राजन् स् इति स्थिते हल्डयादिना सुलोपे सति नकारस्य पदान्तत्वात् प्रातिपदिकान्तत्वाच्च लोपे प्राप्ते । न ङिसम्बुध्द्योः ॥ “न लोप प्रातिपदि कान्तस्य' इत्यत न लोप इत्यनुवर्तते । तत्र नेति लुप्तषष्ठीकम् । तदाह । नस्येत्यादिना ॥ हे राजन्निति ॥ * सर्वनामस्थाने च' इति दीर्घस्तु न । असम्बुद्धावित्युत्ते । नन्वत्र डिग्रहण व्यर्थम् । राजनीत्यत्र भत्वात् पदत्वाभावान्नलोपस्याप्रसक्तरित्यत आह । ङौ तु छन्दसीति ॥ छन्दस्येवेत्यर्थ । ननु छन्दस्यपि डौ परतो भत्वात् पदत्वाभावात् कथ नकारस्य लोपप्रसङ्ग । येन तन्निषेधोऽर्थवान् स्यादित्यत आह । सुपामिति । ननु

  • परमे व्योमन्” इत्यादौ डेर्लुका लुप्तत्वात् प्रत्ययलक्षणाभावात् कथ तत्र “न डिसबुध्ध्यो

इत्यस्य प्रवृत्तिरित्यत आह । निषेधसामर्थ्यदिति ॥ छन्दस्यपि डिलुकि प्रत्ययलक्षणा भावे सति “न डिसम्बुध्द्यो ? इत्यप्रवृत्तौ तद्वैयर्थ्यादिति भाव । ननु यदि छन्दसि “परमे व्योमन्” इत्यादौ डेर्लुका लुप्तत्वेऽपि प्रत्ययलक्षणमाश्रित्य 'न डिसम्बुध्द्यो ? इत्यस्य प्रवृत्ति रभ्युपगम्यते, तर्हि चर्मणि तिला अस्य चर्मतिल, ब्रह्मणि निष्ठा अस्य ब्रह्मनिष्ठ, इत्यत्रापि समासे डिलुक प्रत्ययलक्षणमाश्रित्य “न डिसम्बुध्द्यो.' इति नकारस्य लोपनिषेधस्यादित्यत आह । ङावुत्तरपदे प्रतिषेधो वक्तव्यः इति ॥ उत्तरपदे परतो यः डि: तस्मिन् परे