पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/५३

एतत् पृष्ठम् परिष्कृतम् अस्ति


२३८
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

४७८५) । डौ विषये उत्तरपदे परे “ न डिसम्बुद्धयो ' (सू ६५२) इत्यस्य निषेधो वाच्य इत्यर्थः । चर्मणि तिला अस्य चर्मतिल । ब्रह्मनिष्ठ. । राजानौ, राजान । राजानम्, राजानौ । “ अल्लोपोऽन ' (सू २३४) श्चु त्वम् । न चाल्लोप. स्थानिवत् । पूर्ववासिद्धे तन्निषेधात् । नापि बहिरङ्गतया सिद्ध । यथोद्देशपक्षे षाठी परिभाषां प्रति श्चुत्वस्यासिद्धतयान्तरङ्गाभावे परिभाषाया अप्रवृत्ते । जञोर्ज्ञ । राज्ञ । राज्ञा ।


न डिसम्बुध्द्यो ' इति निपेधस्य प्रतिषेधो वक्तव्य इत्यर्थ । एवञ्च चर्मतिल इत्यत्र उत्तरपदे परत ‘न डिसम्बुद्धद्यो ' इति प्रतिषेधाभावात् नकारस्य लोपो निर्वाध इति भाव । भाष्ये तु छन्दसि “परमे व्योमन्” इत्यत्र “ अयस्मयादीनि छन्दसि' इति भत्वात् पदत्वाभावान्नकार लोपस्याप्रसत्क्तडौ प्रतिषेधो न कर्तव्य ” इति डिग्रहण प्रत्याख्यातम् । नच राजन्यतीत्यत्र लोके राजनीवाचरतीत्यर्थे “ अधिकरणाच्च' इति क्यचि * सनाद्यन्ता ' इति धात्ववयवत्वात् “सुपो धातुप्रातिपदिकयो ' इति डेर्लुकि राजन्य इत्यस्मात् तिपि राजन्यतीत्यत्रापि अन्तर्वर्तिवि भक्त्या पदत्वमाश्रित्य नकारस्य लोपप्राप्तौ तन्निषेधार्थ डिग्रहणस्यावश्यकत्वात्तत्प्रत्याख्यानभाष्य मनुपपन्नमिति वाच्यम् । एतद्राष्यप्रामाण्यादेव राजनीवावरतीत्यर्थे “अधिकरणाच्च' इति क्यचोऽनभिधानाभ्युपगमादित्यलम् । राजानमित्यादौ सुटि 'सर्वनामस्थाने च' इति दीर्घ । शसि विशेषमाह । अल्लोपोऽनः इति । अनेन सूत्रेण जकारादकारस्य लोप इत्यर्थ । राजन् अस् इति स्थिते । श्चुत्वमिति । ततश्च नकारस्य लकारे राज्ञ इति सिद्धम् । ननु “ अच परस्मिन्' इत्यल्लोपस्य पूर्वस्मादपि विधौ स्थानिवत्वात् कथमिह श्चुत्वमित्यत आह । न चाल्लोपः स्थानिवदिति ॥ कुत इत्यत आह । पूर्वत्रेति ॥ 'पूर्वत्रासिद्धे' इति श्चुत्वे कर्तव्ये स्थानिवत्वनिषेधादित्यर्थ । ननु अल्लोपो भसज्ञापेक्षो बहिर्भूतस्वादिप्रत्ययापेक्ष बहि रङ्ग । श्चुत्वन्तु श्चुयोगमात्रापेक्षत्वात् अन्तरङ्गम् । ततश्च “ असिद्ध बहिरङ्गमन्तरङ्गे' इति परिभाषया श्चुत्वे कर्तव्ये बहिरङ्गस्याल्लोपस्यासिद्धत्वादकारेण व्यवधानात् कथमिह श्चुत्व मित्यत आह । नापीति ॥ यथोद्देशेति । यथोद्देश सज्ञापरिभाषमित्येक पक्ष । उद्देशा उत्पत्तिप्रदेशा ताननातिक्रम्य यथोद्देशम् । यत्र प्रदेशे सज्ञापरिभाषयोरुत्पत्ति तत्रैव ते स्थिते प्रतिविधि व्याप्रियेते इत्यर्थ । असिद्धं बहिरङ्गमन्तरङ्गे इति ॥ परिभाषेय षष्ठा ध्द्याये “ताह ऊठ्' इति सूत्रे ज्ञापितेति तत्रैव भाष्ये स्पष्टम् । ततश्च इय षाष्टी परिभाषा त्रैपा दिकश्चुत्वे कर्तव्ये अन्तरङ्गेऽपि न प्रवर्तते । ता प्रति श्चुत्वस्य अन्तरङ्गस्यासिद्धतया तदृष्टया श्चुत्वस्यैवाभावेन तद्विषये तस्या परिभाषाया प्रवृत्त्यसम्भवात् । तथा च श्चुत्वे कर्तव्ये बहि रङ्गस्याप्यछोपस्यासिद्धत्वाभावादिह श्चुत्वन्निबधमिति भाव। ‘कार्यकाल सज्ञापरिभाषम्' इत्यप्यस्ति पक्षान्तरम । प्रतिविधिप्रदेश प्राप्य सज्ञापरिभाषे व्याप्रियेते इत्यर्थ । अस्मिन् वक्षे यद्यपि श्चुत्वमन्तरङ्ग पुरस्कृत्य “ असिद्ध बहिरङ्गमन्तरङ्गे' इति परिभाषात्र प्रवृत्तिमर्हति । तथापि लक्ष्यानुरोधात् कार्यकालपक्षो नेहाश्रीयते इत्यलम् । जञोर्ज्ञः इति ॥ जञयोगे तादृशध्वनेर्लो