पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/६०

एतत् पृष्ठम् परिष्कृतम् अस्ति


नकारान्तप्रकरणम्]
२४५
बालमनोरमा ।

ब्दान्मतुपा च भाषायामपि शब्दद्वयसिद्धिमाश्रित्यैतत्सूत्रं प्रत्याख्यातमाकरे । हविर्जक्षिति नि.शङ्को मखेषु मघवानसौ' इति भट्टि । मघवन्तौ, मघवन्त । हे मघवन् । मघवन्तम्, मघवन्तौ, मघवत । मघवता, मघवद्भयाम् इत्यादि । तृत्वाभावं मघवा । * छन्दसीवनिपौ च' इति वनिबन्तं मध्योदात्तं छन्दस्येव । अन्तोदात्तं तु लोकेऽपीति विशेष । मघवानौ, मघवान । सुटि राजवत् ।


चिद्विभाषा क्वचिदन्यदेव । शिष्टप्रयोगाननुसृत्य लोके विज्ञेयमेतद्वहुळग्रहे तु ॥” इति स्थिति । अत्र दीर्घ कर्तव्ये सयोगान्तलोपस्य नासिद्धत्वम् । पचान्नित्यादौ तु सिद्धत्वमेवेति बहुळग्रहणा लभ्यत इत्यर्थ । ननु त्रादेशपक्षे मघवन्नित्येवास्तु । बहुळग्रहणेन सयोगान्तलोपस्यासिद्धन्वा भावकल्पनाया प्रमाणाभावात् । वेदे तु यज्ञेन मघवानित्यादौ दीर्घश्छान्दसो भविष्यतीत्यत आह । तथा चेति ॥ त्रादेशपक्षे सयोगान्तलोपस्यासिद्धत्वाभावमभ्युपगम्यैवत्यर्थ । निपा तनादिति । कनिप्रत्ययस्य, अबुगागमस्य, घत्वस्य, इति त्रयाणा निपातनादित्यर्थ । तथा च नान्तो मघवन्शब्द सिध्द्यतीति भाव । मघशब्दादिति ॥ धनपर्यायादित्यर्थ । मघ धन मस्यास्तीत्यर्थे मतुपि 'मादुपधायाश्च' इति वत्वे तान्तो मघवच्छब्दसिद्ध इति भाव । भा षायामपीति ॥ लोके छन्दसि च इत्यर्थ । शब्दद्वयेति ॥ मघवन्शब्दो मघवच्छब्द श्चेति शब्दद्वय 'मघवा बहुळम्’ इत्यस्य फलम् । तस्य सिद्धिमाश्रित्येत्यर्थ । आकरे इति ॥ केशाद्वा' इति सूत्रे कैयटग्रन्थे इत्यर्थ । तत्र ह्येवमुक्तम् । “मघवा बहुळम्' इत्यतन्न कर्त व्यम् । “श्वन्नुक्षन्” इति निपातनात् मघशब्दान्मतुपा च भाषायामपि शब्दद्वयस्य सिद्धत्वात् इति । तादेशपक्षे सयोगान्तलोपस्यासिद्धत्वान् दीर्घीभावाश्रयणे मघवन्निति रूपम् । मतुपि तु “ अत्वसन्तस्य ' इति दीर्घ मघवानिति रूपभेदापत्या तदसङ्गति स्पष्टैवेति भाव । वस्तुतसुतु कन्यन्तस्य प्रत्ययस्वरेणान्तोदात्तत्वम्, मतुपि तु * ह्रस्वनुइभ्याम्मतुप्' इति मतुबुदात्तत्वप्र तिषेधे सति पित्वादनुदात्तत्वे घकारादकारस्य फिट्स्वरेण उदात्तत्वमिति फलभेदात् कैयटग्रन्थ श्चिन्त्य एव । मघवानिति दीर्घश्शिष्टसम्मतश्चेत्याह । हविरिति ॥ मखेषु यज्ञेषु निश्शङ्क असैौ मघवान् हविर्जक्षिति । भक्षयतीत्यर्थ । मघवन्तावित्यादि ॥ सुटि त्नादेशो नुम्चेति भावः । शसादौ त्रादेश नतु नुम्, असर्वनामस्थानत्वादित्यभिप्रेत्य आह । मघवतः इति ॥ मघवद्भयामित्यादि ॥ त्नादेशे । “स्वादिषु' इति पदत्वाज्जश्त्वम् । सुपि त्रादेशे जश्त्व चत्वें मघवत्सु । तृत्वाभावे मघवेति नान्तात् सौ राजवद्रूपमिति भाव । ननु 'मघवा बहुळम् इति सूत्रे “अर्वणस्तृमघोनश्च न शिष्य छान्दस हि तत्” इति वार्तिकभाष्यकैयटेषु मघवन्शब्द स्य छन्दोमात्रविषयत्वावगमात् कथन्तस्य लोके प्रयोग इत्यत आह । छन्दसीवनिपावेि त्यादि ॥ 'तदस्यास्त्यस्मिन्निति मतुप्’ इत्यधिकारे “केशाद्वोऽन्यतरस्याम्' इति सूत्रे ‘छन्दसी वनिपौ च' इति वार्तिकम् । छन्दसि ईवनिपौ च वक्तव्यौ वश्व वतुप्च। “रथीरभून्मुद्गलानि गवि ष्टौ, सुमङ्गलीरिय वधू, ऋतवानमीहते” इति तत्र भाष्यम् । तत्र वनिप्प्रत्ययान्ते मघवन्शब्दे प्रत्ययस्वरेण वकारादकार उदात्तः । मघशब्द फिट्स्वरेणान्तोदात्त. । “अनुदात्त पदमेकव