पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/९५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८०
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

॥ अथ हलन्तपुल्लिङ्गे चकारान्तप्रकरणम् ।।

'ऋत्विग्---' (सू ३७३) इत्यादिसूत्रेणाञ्चे. सुयुपपदे क्विन् ।

४१५ । अनिदितां हल उपधायाः क्डिति । (६-४-२४)

हलन्तानामनिदितामङ्गानामुपधाया नस्य लोप स्यात्किति डिति च । 'उगिद्चाम्--' (सू ३६१) इति नुम् । संयोगान्तस्य लोप ' (सू १४) नुमो नकारस्य *क्रिन्प्रत्ययस्य कु (सू ३७७) इति' कुत्वेन डकार । प्राङ् । अनुस्वारपरसवर्णौ । प्राञ्चौ, प्राञ्च । प्राञ्चम्, प्राञ्चौ ।

४१६ । अचः । (६-४-१३८)

लुप्तनकारस्याञ्च तेर्भस्यकारस्य लोपः स्यात् ।

४१७ । चौ । (६-३-१३८)


अथ चकारान्ता निरूप्यन्ते । ऋत्विगित्यादिसूत्रेणेति ॥ प्र अञ्चतीत्यर्थे 'अञ्चु गतिपूजनयो ' इति गत्यर्थकाद्धातो नोपधात् क्विन्नित्यर्थ । पूजार्थस्य त्वग्रे वक्ष्यते । क्विनि हलन्त्यम्' इति नकार इत् । इकार उच्चारणार्थ । “लशक्वतद्धिते' इति ककार इत् । वेरपृक्तस्य' इति वकारलोप । प्र अञ्च् इति स्थिते । अनिदिताम् ॥ अङ्गस्येत्यधि कृत बहुवचनेन विपरिणम्यते । हल इति तद्विशेषणम्, तदन्तविधि । “ अनिदिताम् इत्यपि तद्विशेषणम् । इत् हूस्व इकार इत्सज्ञक येषा तानि इदिन्ति, न इदिन्ति अनिदि न्ति, तेषामिति विग्रह । अवयवषष्ठयन्तमेतत् उपधाया इत्यत्रान्वेति । उपधाया इत्यप्य वयवषष्ठयन्तम् । तच 'श्र्नान्न लोप ' इत्यतो नेत्यनुवृत्ते लुप्तषष्टीके अन्वेति । क् च् ड् च क्डौ इतौ यस्येति विग्रह । तदाह । हलन्तानामित्यादिना ॥ इति चकारात्पूर्वस्य नकारस्य लोप । प्र अच् इति स्थितम् । तस्मात् सुबुत्पत्ति । सुटि विशेषमाह । उगि दचामिति नुमिति ॥ सौ विशेषमाह । संयोगान्तस्य लोपः इति ॥ हल्डयादिना सुलोपे सतीति शेष । कुत्वेन ङकारः इति ॥ नासिकास्थानसाम्यादिति भाव । अनुस्वारपरसवर्णाविति । प्राच् औ इति स्थिते नुमि 'नश्चापदान्तस्य' इति नकार स्यानुस्वार । “ अनुस्वारस्य ययि' इति तस्य परसवर्ण नकार । नस्य श्चुत्वन्तु न भवति । अनुस्वार प्रात तस्यासिद्धत्वादित्यर्थ । शसादावचि नुमभावात् प्र अच् अस् इति स्थिते । अचः ॥ अच इत्यञ्चुधातो “अनिदिताम्' इति लुप्तनकारस्य षष्ठयन्तम् । भस्येत्यविकृतम् ।

  • अल्लोपोऽन ' इत्यत अल्लोप इत्यनुवर्तते । तदाह । लुप्तेति ॥ इत्यकारलोपे प्रच् अस्

इति स्थिते । चौ ॥ अञ्चुधातौरुकारान्तस्य लुप्तनकाराकारस्य चाविति सप्तम्यन्तम् ।