पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/९६

एतत् पृष्ठम् परिष्कृतम् अस्ति
चकारान्तप्रकरणम्]
२८१
बालमनोरमा ।

लुप्ताकारनकारेऽञ्चतौ परे पूर्वस्याणो दीर्घ. स्यात् । प्राच । प्राचा, प्राग्भ्यामित्यादि । प्रत्यङ्, प्रत्यञ्चौ, प्रत्यञ्च. । प्रत्यञ्चम्, प्रत्यञ्चौ । अच.' (सू ४१६) इति लोपस्य विषयेऽन्तरङ्गोऽपि यण् न प्रवर्तते । अकृतव्यूहाः-(प ५७) इति परिभाषया । प्रतीच । प्रतीचा । ‘अमु मञ्चति' इति विग्रहे 'अद्स् अञ्च' इति स्थिते ।

४१८ । विष्वग्देवयोश्च टेरद्यञ्चतावप्रत्यये । (६-३-९२)

अनयो सर्वनान्नश्च टेरद्यादेश स्यादप्रत्ययान्ते अञ्चतौ परे । 'अद द्रि अञ्च' इति स्थिते, यण्।


' ढूलोपे' इत्यत दीर्घोऽण इत्यनुवर्तते । तदाह । लुप्तेति ॥ प्राचः इति । यद्यपि अच ’ इत्यल्लोपस्य “चौ' इति दीर्घस्य चाभावेऽपि सवर्णदीर्घेण प्राच इति सिध्ध्यति । तथापि प्रतीच इत्याद्यर्थ सूत्रम् । प्राग्भ्यामिति ॥ प्राच् भ्याम् इति स्थिते *चो कु' इति कुत्वम् । “क्विन्प्रत्ययस्य कु ' इति कुत्बस्यासिद्धत्वात् । इत्यादीति । प्राग्भि । प्राचे । प्रान्व , प्राची, प्राक्षु । प्रत्यङ् इति । प्रतिपूर्वादश्चे क्विन्, यण् , “ अनिदिताम्' इति नलोप, सुबुत्पत्ति । 'उगिदचाम्' इति नुम्, हल्डयादिना सुलोप, चकारस्य सयो गान्तलोप, नुमो नकारस्य “क्विन्प्रत्ययस्य ' इति कुत्वेन डकार इति भाव । प्रत्य ञ्चाविति ॥ प्रत्यच् औ इति स्थिते “उगिदचाम्' इति नुमि तन्नकारस्य श्चुत्वेन ञकार इति भाव । एव प्रत्यञ्च । प्रत्यञ्चम्, प्रत्यचौ । ननु प्रति अञ्च इति स्थिते अन्त रङ्गत्वाद्यणि कृते “अनिदिताम्' इति नलोपे प्रत्यच् इत्यस्मात् शसि असर्वनामस्थानत्वात्

  • उगिदचाम्' इति नुमभावे “अच ' इत्यकारलोपे “चौ' इति दीर्घो न भवति । पूर्वस्याणो

ऽभावातू । ततश्च प्रत्यच इति स्यादित्यत आह । अचः इति लोपस्येत्यादि ॥ * अच इति लोपेन यण्निमित्तस्याकारस्य विनाशोन्मुखत्वादिह यण्न भवति । ततश्च प्रति अच् अस् इति स्थिते “अच ' इत्यकारलोपे सति “चौ' इति इकारस्य दीर्घे प्रतीच इति रूप निर्बाधम् । एतदर्थमेव “अच ? इति “चौ' इति चारब्धम् । प्राच पश्येत्यत्र अल्लोपदीर्घयोरभावेऽपि सवर्णदीर्घणैव रूपसिद्धे । भाष्ये तु “चौ' इत्यारम्भसामर्थ्यादेवात्र यण् नेति समाहितम् । न च प्राच पश्येत्यादौ सावकाशत्वमिति वाच्यम् । सवर्णदीर्घणैव निर्वाहात् “वार्णादाङ्ग बलीय ? इति परिभाषया “अच ' इत्यलोपे सति सवर्णदीर्घसिद्धेरित्यन्यत्र विस्तर । अद्स् अञ् इति स्थिते इति ॥ क्विनि उपपदसमासे सुब्लुकि च सति अदस् अञ्च् इति स्थिते “ अनिदिताम्' इति नलोपे कृते अदस् अञ् इति स्थिते सतीत्यर्थ । विष्वग्देवयोश्च ॥ अद्रि इति लुप्तप्रथमाकम् । अनयोरिति ॥ विष्वग्देवशब्दयो रित्यर्थ । सर्वनास्रः इति ॥ चकारेण “आ सर्वनाम्न ? इत्यतस्तदनुकर्षादिति भाव । अप्रत्ययान्ते इति ॥ सूत्रे अप्रत्यय इत्यत्र नित्यम् अश्रूयमाणत्वादविद्यमान प्रत्यय