पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१०४

एतत् पृष्ठम् परिष्कृतम् अस्ति
६१८
[सर्व
सिद्धान्तकौमुदीसहिता

९४३ । अच्प्रत्यन्ववपूर्वात्सामलोम्नः। । (५-४-७५)

एतत्पूर्वात्सामलोमान्तात्समासादच्स्यात् । प्रतिसामम् । अनुसामम् । अवसामम् । प्रतिलोमम् । अनुलोमम्। अवलोमम् । “कृष्णोदक्पाण्डुसंख्यापूर्वाया भूमेरजिष्यते' (वा ५०४६) । कृष्णभूमः । उद्ग्भूपः । पाण्डुभूमः । द्विभूमः प्रासादः । “संख्याया नदीगोदावरीभ्यां च' (वा ५०४७) । पञ्चनदम् । सप्तगोदावरम् | * अच्' इति योगविभागादन्यत्रापि । पद्मनाभः ।

९४४ । अक्ष्णोऽदर्शनात् । (५-४-७६)

अचक्षु:पर्यायाद्क्ष्णोऽच्स्यात्समासान्तः । गवामक्षीव गवाक्षः ।


धूर्शब्दः प्रपश्चितः । अथ पथिन्शब्दस्योदाहरति । सखिपथाविति ॥ सखा च पन्थाश्चेति द्वन्द्वः । अकारप्रत्ययः । “नस्तद्धिते इति टिलोपः । रम्यपथ इति । रम्यः पन्था यस्येति विग्रहः । अच्प्रत्यन्वव ॥ एतत्पूर्वादिति ॥ प्रति, अनु, अव, एतत्पूर्वकादित्यर्थः । प्रतिसाम मिति ॥ प्रतिगतं सामेति विग्रहः । अच् , “नस्तद्धिते' इति टिलोपः । अनुसाममिति ॥ अनुगतं सामेति विग्रहः । अच्, टिलोपः । अवसाममिति ॥ अवकृष्टं सामेति विग्रहः । अच्, टिलोपः । प्रतिलोममिति ॥ प्रतिगतं लोमेति विग्रहः । अनुलोममिति ॥ अनुगतं लोमेति विग्रहः । अवलोममिति ॥ अवगतं लोमेति विग्रहः । सर्वत्राच्, टिलोपः । कृष्णो दगिति ॥ नेदं वार्तिकम् । किं त्वच्प्रत्ययेत्यत्र अजिति योगविभागमूलाभियुक्तोक्तिरेषा । कृष्णेति ॥ कृष्णा भूमिः यस्य, उदीची भूमिः यस्य, पाण्डुः भूमिः यस्य, द्वे भूमी यस्य तिस्रो भूमयः यस्येति च विग्रहः । प्रासादस्सर्वत्र विशेष्यः । सङ्कयाया इति ॥ इदमप्यजिति योगविभागमूलकमेव । सङ्खयायाः परो यो नदीब्दः गोदावरीशब्दश्च ताभ्यामजिष्यते इत्यर्थः । पञ्चनदमिति ॥ पञ्चानां नदीनां समाहार इति विग्रहः । सप्तगोदावरमिति ॥ सप्तानां गोदावरीणां समाहार इति विग्रहः । 'नदीभिश्च' इत्यव्ययीभावः । अचि “यस्येति च' इति लोपः । “नाव्ययीभावात्' इत्यम् । अन्यत्रापीति ॥ अजिति शेषः । पद्मनाभ इति ॥ पद्मं नाभौ यस्येति विग्रहः। वस्तुतस्तु, योगविभागस्य भाष्येऽदर्शनात् पृषोदरादित्वमेवोचितम् । अक्ष्णोऽदर्शनात् ॥ अदर्शनादिति च्छेदः । दृश्यतेऽनेनेति दर्शनं, चक्षुः । करणे ल्युट् । अचक्षुर्वाचिन इति फलितम् । तदाह । अचक्षुःपर्यायादिति ॥ गवामक्षीवेति ॥ अक्षिशब्दस्तत्सदृशे लाक्षणिक इति सूचयितुमिवशब्दः प्रयुज्यते । मुख्यवृत्या चक्षुर्वाचकत्वा १. इदम् 'अच्’ इति योगविभागलब्धम्-इति काशिका । २. इदम् “अच्' इति योगविभागलब्धम्-इति काशिका ।