पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१०७

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
६२१
बालमनोरमा

९४६ । ब्रह्महस्तिभ्यां वर्चसः । (५-४-७८)

अच्स्यात् । ब्रह्मवर्चसम् । हस्तिवर्चसम् । “पल्यराजभ्यां चेति वक्तव्यम्’ (वा ३३५२) । पल्यवर्चसम् । राजवर्चसम् ।

९४७ । अवसमन्धेभ्यस्तमसः । (५-४-७९)

अवतमसम् । सन्तमसम् । अन्धयतीत्यन्धम् । पचाद्यच् । अन्धं तमाऽन्धतमसम् ।

९४८ । श्वसो वसीयःश्रेयसः । (५-४-८०)

वसुशब्दः प्रशस्तवाचा । तत ईयसुनि वसीयः । श्वस्शब्दः उत्तर पदार्थप्रशंसामाशीर्विषयमाह । मयूरव्यंसकादित्वात्समासः । श्वोवसीयसम् ।


भाष्यात् । नन्वत्र “नस्तद्धिते' इति टिलोपः कुतो न स्यात् । “ अतद्धिते' इति पर्युदासात् ।

  • श्वयुवमघोनामतद्धिते' इति कथं वा सम्प्रसारणं स्यादित्यत आह । टिलोपाभावस्स

म्प्रसारणञ्च निपात्यत इति ॥ गोष्टश्व इति ॥ सप्तमीसमासादजिति भाध्यम् । अतएव भाष्यात् सप्तमीसमासः । टिलोपः । “ अतद्धिते' इति निषेधान्न सम्प्रसारणम्, षष्ठीतत्पुरुषे तु गोष्ठश्वा । ब्रह्म ॥ शेषपूरणेन सूत्रं व्याचष्टे । अच्स्यादिति ॥ ब्रह्मवर्चसमिति ॥ ब्रह्मणो वर्चः इति विग्रहः । हस्तिवर्चसमिति ॥ हस्तिनो वर्च इति विग्रहः । पल्यराज भ्यामिति ॥ आभ्यां परो यो वर्चश्शब्दः तस्मादपि अजिति वक्तव्यमित्यर्थः । पल्यवर्चस मिति । पलं मांसं तदर्हति पल्यः, मांसभोजीत्यर्थः । तस्य वर्च इति विग्रहः । राजवर्च समिति । राज्ञो वर्च इति विग्रहः । अवसमन्धेभ्यस्तमसः । अव सम् अन्ध एभ्यः परो यस्तमश्शब्दस्तस्मादच्स्यादित्यर्थः । अवतमसमिति । अवहीनन्तम इति विग्रहः । प्रादिसमासः । सन्तमसमिति । सन्ततं तमः इति विग्रहः । प्रादिसमासः । अन्धयतीत्यन्धमिति । ‘अन्ध दृष्टयुपघाते' चुरादिः, दृष्टिं प्रतिबध्नातीत्यर्थः । पचाद्य जिति । “नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः' इति पचादित्वप्रयुक्तोऽच्प्रत्यय इत्यर्थः । अवि णिलोपेऽन्धमिति रूपमित्यर्थः फलति । गाढस्यैव तमसः दर्शनप्रतिबन्धकत्वात् । अन्ध तमसमिति । कर्मधारयादच् । श्वसः । श्वस् इत्यव्ययात् परो यो वसीयश्शब्दः श्रेय श्शब्दश्च तस्मादच् स्यादित्यर्थः । वसुशब्दः प्रशस्तवाचीति । “यं कामयेत वसीयान् स्यात्” इत्यादौ तथा दर्शनादिति भावः । तत इति ॥ अतिशयेन वसुरिति विग्रहे ‘द्विवचन विभज्योपपदे' इतीयसुनि, 'तुरिष्टमेयस्सु' इत्यनुवृत्तौ टेरिति टिलोपे वसीयश्शब्द इत्यर्थः । श्वस्शब्द इति । यद्यपि श्वस्शब्दः कालविशेषवाची । तथापि प्रकृते शब्दशक्तिस्वभावा दुत्तरपदार्थभूतां प्रशंसाम् आशीर्विषयं द्योतयतीत्यर्थः । आशिषो विषयः, आशीविषयः । तमिति