पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१०८

एतत् पृष्ठम् परिष्कृतम् अस्ति
६२२
[
सिद्धान्तकौमुदीसहिता

९४९ । अन्ववतताद्रहसः । (५-४-८१ )

अनुरहसम् । अवरहसम् । तप्तरहसम् ।

९५० । प्रतेरुरसः सप्तमीस्थात् । (५-४-८२)

उरसि प्रति प्रत्युरसम् । विभक्तयर्थे ऽव्ययीभावः ।

९५१ । अनुगवमायामे । (-४-८३)

एतन्निपात्यते दीर्घत्वे । अनुगवं यानम् । “यस्य चायामः' (सू ६७०) इति समासः ।

९५२ । द्विस्तावा त्रिस्तावा वेदिः । (५-४-८४)

अच्प्रत्ययष्टिलोपः समासश्च निपात्यते । यावती प्रकृतौ वेदिस्ततो


षष्ठीसमास । प्रशंसाविशेषणम् । । विषयशब्दस्य नित्यपुलिङ्गत्वात् न स्त्रीलिङ्गता। एवञ्च श्वस् शब्दः उत्तरपदार्थभूतप्राशस्त्यस्य द्योतकः इति फलितोऽर्थः । ननु तर्हि श्वस्शब्द स्योत्तरपदार्थ गतप्राशस्त्यद्योतकत्वेऽप्युत्तरपदसामानाधिकरण्याभावात् कथं विशेषणसमास इत्यत आह । मयूरेति । तथाचाशीलिंडादिप्रयोगे एव अस्य साधुत्वमित्यभिप्रेत्योदाहरति । श्वोवसी यसमिति ॥ आतिशयेन प्रशस्तमित्यर्थः । श्वश्रेयसमिति । अतिशयेन प्रशस्तमिति विग्रहे प्रशस्तशब्दादीयसुन् । प्रशस्यस्य श्रः । 'प्रकृत्यैकाच्’ इति प्रकृतिभावान्न टिलोपः । आद्गुणः । श्रेयस् इति रूपम् । श्वस्शब्दस्तु उत्तरपदार्थगतप्रशंसाद्योतकः । “श्वश्रेयसं शिवं भद्रम्' इत्यमरः । ते भूयादिति तु उभयत्रापि सम्बध्द्यते । श्वोवसीयसं ते भूयात् । श्वश्रेयसं ते भूयादिति । अन्ववतप्ताद्रहसः । अनु अव तप्त एतेषां समाहारद्वन्द्वः । एभ्यः परो यो रहश्शब्दः तस्मादच्स्यादित्यर्थः । रहः अप्रकाशप्रदेशः । अनुरहसमिति । अनुगतं रह इति विग्रहः । अवरहसमिति । अवहीनं रह इति विग्रहः । उभयत्र प्रादिसमासः । तप्तरहसमिति । तप्तं रह इति विग्रहः । प्रतेरुरसः । सप्तम्यर्थे द्योतकतया वर्तत इति सप्तमीस्थम् । सप्तम्यर्थद्योतकात् प्रतेः परो यः उरश्शब्दः तस्मादच् स्यादित्यर्थः । उरसि इत्यनेन यदुच्यते तदेव प्रत्युरसमित्यनेनोच्यते इत्यर्थः । सप्तम्यर्थद्योतकः प्रतिः । तस्य विभक्तयर्थे विद्यमानस्य “ अव्ययं विभक्ति' इत्यादिनाऽव्ययीभाव इत्यर्थः । अनुगवमायामे ॥ एतदिति । अनुगवमित्येतदित्यर्थः । अनुना दीर्घत्वे द्योत्येऽच्प्रत्ययान्तो निपात्यते इत्यर्थः । आयामशब्दो दीर्घपर इति भावः । अनुगवं यानमिति ॥ अनुगोशब्दादचि अवादेश इति भावः । यस्य चेति । ।'यस्य चायामः’ इत्यव्ययीभावसमासः । तथा च गोदैर्ध्य सदृशदैर्ध्यकं यानमित्यर्थः फलतीति भावः । द्विस्तावा ॥ यावती प्रकृताविति । यतः अङ्गकलापस्यातिदेशः सा प्रकृतिः । अश्वमेधस्य प्रकृतिरग्निष्टोमः । तत्राम्नाताङ्गकलापा नामश्वमेधेऽतिदेशात् । तदुक्तं कल्पसूत्रेषु “सर्वसोमक्रतूनामन्निष्टोमः प्रकृतिः” इति । तस्मिन्