पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१०९

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
६२३
बालमनोरमा

द्विगुणा त्रिगुणा वा अश्वमेधादौ तत्रेदं निपातनम् । “वेदिः' इति किम् द्विस्तावती त्रिस्तावती रज्जु

९५३ । उपसर्गादध्वनः । (५-४-८५)

प्रगतोऽध्वानं प्राध्वो रथः

९५४ । न पूजनात् । (५-४-६९)

पूजनार्थात्परेभ्यः समासान्ता न स्युः। सुराजा । अतिराजा स्वतिभ्यामेव' (वा ३३४६) । नेह । परमराजः। पूजनात्' किम्। गामतिक्रान्तोऽतिगवः।बहुव्रीहौ सक्थ्यक्ष्णोः (सू ८५२) इत्यतः प्रागेवायं निषेधः । नेह । सुसक्थः।स्वक्षः।


अग्निष्टोमे वेदिपरिमाणं श्रुतम् । तत्र च “त्रिंशत्पदानि प्रक्रमा वा पश्चातिरश्री षट्त्रंशत् प्राची

चतुर्विशतिः पुरस्तात्तिरश्ची” इति प्रकृतौ वेदिपरिमाणमुक्तम् । अस्यां तु वेद्यां ततो द्विगुणितं त्रिगुणितं च क्षेत्रपरिमाणमुक्तम्। तच्च कल्पसूत्रेषु “ अष्टाविंशत्यूनं पदसहस्रं महावेदिः” इति । पदग्रहणमत्र प्रक्रमस्याप्युपलक्षणम् । तथाच प्रकृतौ अन्निष्टोमे यावती वेदिः तदपेक्षया द्विगुणा त्रिगुणा वा अश्वमेधादौ वेदिरस्ति । तत्र आश्वमेधिकवेद्यामभिधे यायां द्विस्तावेति त्रिस्तावेति च भवतीत्यर्थ सङ्खयायाः क्रियाभ्यावृतिगणने कृत्वसुचु इति 'द्वित्रिचतुर्भ्यस्सुच्' इति द्विशब्दात् क्रियाभ्यावृत्तौ सुचि कृते द्विरिति त्रिरिति च रूपम्। तत् प्राकृतं परिमाणम् अस्या अस्तीति तावती । प्राकृतपरिमाणेति यावत्। द्विरिति तच्छब्दार्थे प्रकृतिपरिमाणेऽन्वेति । द्विः तावतीति विग्रहः । द्विरावृत्तं प्राकृतं यत् परिमाणं तद्वत्याश्वमेधिकी वेदिरित्यर्थः । अत एव निपातनात् समासः, अच्प्रत्ययः ।तावतीशब्दस्य भस्याढे' इति पुंवत्त्वे ङीपो निवृत्तौ प्रत्ययस्याडित्वेऽपि प्रकृतेनान्तत्वाभावेऽपि टिलोपः। द्विस्तावती त्रिस्तावती रज्जुरिति।। अत्र वेद्यामप्रवृत्तेः अच्प्रत्ययटिलोपसमासा न भवन्तीत्यर्थः । तथाच प्रत्युदाहरणे द्विरिति भिन्नं पदम् । उपसर्गादध्वनः। उपसर्गात् परो योऽध्वन्शब्दः तस्मादच् स्यादित्यर्थे प्राध्वो रथ इति ॥निरादयः' इति समासादच् । नस्तद्धिते' इति टिलोपः । न पूजनात् ॥ परेभ्य इत्यद्याहार्यम् । समासान्ता इति पूर्वसूत्रमनुवर्तते । तदाह । पूजनार्थादिति ॥ 'पूजनायां स्वतिग्रहणं कर्तव्यम्’ इति वार्तिकमभिप्रेत्योदाहरति । सुराजेति सु शोभनो राजेति प्रदिसमासः । अति राजेति ॥ पूज्यो राजेत्यर्थः । उभयत्रापि “राजाहस्सखिभ्यः' इति टच् न भवति स्वतिभ्यामेवेति ॥ स्वतिभ्यां परो यो राजन्शब्दः तस्मादेवेत्यर्थः। तथा वार्तिकादिति भावः । नेहेति । निषेध इति शेषः । परमराज इति । परमश्चासौ राजा चेति विग्रहः । अतिगव इति अत्यादय:’ इति समासः । अतेः पूजनार्थकत्वाभावात् ततः परस्माद्राजन्शब्दातू न टवो निषेधः। इत्यतः प्रागिति ॥ 'प्राग्बहुव्रीहिग्रहणं ।