पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/११०

एतत् पृष्ठम् परिष्कृतम् अस्ति
६२४
[
सिद्धान्तकौमुदीसहिता

९५५ । किमः क्षेपे । (५-४-७०)

क्षेपे यः किंशब्दस्ततः परं यत्तदन्तात्समासान्ता न स्युः । कुत्सितो राजा किंराजा । किंसखा । किंगौः । “क्षेपे' किम् । किंराजः, किंसखः । किंगवः ।

९५६ । नअस्तत्पुरुषात । (५-४-७१)

समासान्तो न । अराजा । असखा । “तत्पुरुषात्' किम् । अधुरं शकटम् ।

९५७ । पथो विभाषा । (५-४-७२)

नञ्पूर्वात्पथो वा समासान्तः । अपथम्-अपन्था: । “तत्पुरुषात् इत्येव । अपथो देशः । अपथं वर्तते ।

इति सर्वसमासान्तप्रकरणम् ।


कर्तव्यम्’ इति वार्तिकार्थसङ्गहोऽयम् । सुसक्थः , स्वक्ष इति । सु शोभने सक्थिनी यस्य, शोभने अक्षिणी यस्येति च विग्रहः । 'बहुव्रीहौ सक्थ्यक्ष्णोः ' इति षच् । किमः क्षेपे ॥ किंराजा । किंसखेति ॥ इह 'राजाहस्सखिभ्य:’ इति टच् न भवति । किम: क्षेपे' इति समासः । किंरराजः । किंसखः इति ॥ किंशब्दोऽत्र प्रश्रे । कस्य राजा किं राजेति वा विग्रहः । निन्दानवगमात् न टचो निषेधः । नञ्जयस्तत्पुरुषात् ॥ शेष पूरणेन सूत्रं व्याचष्टे । समासान्तो नेति । नञ्पूर्वपदात्तत्पुरुषात् समासान्तो नेति फलितम् । अधुरं शकटमिति । अविद्यमाना धूर्यस्येति विग्रहः । नञ्पूर्वपदत्वेऽप्य तत्पुरुषत्वात् 'ऋक्पूः' इति समासान्तस्य न निषेधः । पथो विभाषा ॥ पथ इति ॥ पथिन्शब्दादित्यर्थः । अपथमिति । न पन्था इति विग्रहे नञ्तत्पुरुषः । ‘ऋक्पूः इत्यप्रत्यये सति “नस्तद्धिते' इति टिलोपः । “पथस्सङ्खयाव्ययादेः’ इति नपुंसकत्वम् । अपन्था इति ॥ अप्रत्याभावे रूपम् । तत्पुरुषादित्येवेति अनुवर्तत एवेत्यर्थः ॥ । अपथो देश इति । अविद्यमानः पन्था यस्येति विग्रहः । बहुव्रीहित्वात् 'ऋक्पूः इत्यप्रत्ययस्य पाक्षिको न निषेधः । अपथं वर्तते इति ॥ अर्थाभावेऽव्ययीभावः । अतत्पुरुषत्वात् 'ऋक्यूः’ इत्यप्रत्ययस्य न पाक्षिको निषेधः ॥ इति श्रीमद्वासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां सर्वसमासान्तप्रकरणं समाप्तम् ।