पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/११२

एतत् पृष्ठम् परिष्कृतम् अस्ति

सिद्धान्तकौमुदीसहिता [अलुक्समास द्राह्मणानि, तानि शंसतीति ब्राह्मणाच्छंसी ऋत्विग्विशेषः । द्वितीयार्थे पञ्च म्युपसंख्यानादेव। ९६० । ओजःसहोऽम्भस्तमसस्तृतीयायाः । (६-३-३) ओजसाकृतमित्यादि । * अञ्जस उपसंख्यानम्’ (वा ३८८०) । अञ्ज साकृतम् । आर्जवेन कृतमित्यर्थः । * पुंसानुजो जनुषान्ध इति च' (वा ३८८१) । यस्याग्रजः पुमान्स पुंसानुजः । जनुषान्धो जात्यन्धः । ९६१ । मनसः संज्ञायाम् । (६-३-४) मनसागुप्ता। ९६२ । आज्ञायिनि च । (६-३-५)

  • मनसः' इत्येव । मनसा ज्ञातुं शीलमस्य मनसाज्ञायी ।

९६३ । आत्मनश्च । (६-३-६) सङ्कश्शस्रम् । उपचारादिति ॥ लक्षणयेत्यर्थः । द्वितीयार्थे इति ॥ पञ्चम्या अलुक् । उप सङ्खयानबलादेव द्वितीयार्थे पञ्चमीत्यर्थ । ओजस् ॥ ओजस्, सहसू, अम्भस्, तमस् एषां समाहारद्वन्द्वः । एभ्यः परस्यास्तृतीयाया अलुक् स्यादुत्तरपदे इत्यर्थः । ओजसाकृत मिति ॥ ‘कर्तृकरणे कृता बहुळम्’ इति समासः । “ओजो दीप्तौ बले” इत्यमरः । इत्या दीति ॥ सहसाकृतम्, अम्भसाकृतम्। तमसा विकृतं तमोविकृतमिति तु असाध्वेव । शेषष्ठया वा समासः । अञ्जस उपसङ्खयानमिति ॥ अञ्जश्शब्दात् तृतीयाया अलुगुपसङ्खयान मित्यर्थः । अञ्जसाकृतमिति ॥ अञ्जश्शब्दः आर्जवे वर्तते । यथा क्षेत्रज्ञोऽञ्जसा नयतीत्यादौ तथा दर्शनात् । तदाह । आर्जवेनेति ॥ पुंसानुजः ॥ तृतीयाया अलुकेि साधुरिति शेषः। यस्येति ॥ यस्य पुमान् पूर्वजः स पुंसा हेतुना अनुजः कनीयान् इत्यर्थः । जनुषेति ॥“ जनु र्जननजन्मानि” इत्यमरः । जनुषा जन्मना हेतुना अन्ध इत्यर्थः । फलितमाह । जात्यन्ध इति ॥ ब्राह्मण्यादिजातितुल्यान्ध्यवानित्यर्थः । उत्पत्तिप्रभृत्यन्ध इति यावत् । मनसस्सं ज्ञायाम् ॥ मनसस्तृतीयाया अलुक् स्यादुत्तरपदे इत्यर्थः । मनसागुप्तेति । कस्या श्चित् संज्ञेयम् । असंज्ञायान्तु मनोगुप्ता । आज्ञायिनि च ॥ मनसः इत्येवेति ॥ अनुवर्तते एवेत्यर्थः । मनसस्तृतीयाया अलुक् स्यात् आज्ञायिनि परे इत्यर्थः । असंज्ञार्थमिदम् । ज्ञा तुमिति ॥ प्रेरयितुमित्यर्थः । मनसाज्ञायीति ॥सुप्यजातौ इति 'णिनिः। ‘आतो सुप्यजातौ' इति युक्चिण्कृतोः' इति युक् । अत्र सूत्रभाष्ये 'आत्मनश्च पूरणे उपसङ्खयानम्’ इति वार्तिकं पठितम् । तत्रात्मनश्चेत्यंशं व्याख्यातुं पृथगुपादत्ते । आत्मनश्चेति ॥ चकारात्तृतीयाया