पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/११३

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
६२७
बालमनोरमा

आत्मनस्तृतीयाया अलुक्स्यात् । पूरण इति वक्तव्यम्' (वा ३८८२)। पूरणप्रत्ययान्ते उत्तरपद् इत्यर्थः।आत्मनापञ्चमः।जनार्दनस्त्वात्मचतुर्थ एव' इति बहुव्रीहिर्बोध्यः । *पूरणे' किम् । आत्मकृतम् ।

९६४ । वैयाकरणाख्यायां चतुर्थ्याः। । (६-३-७)

आत्मनः' इत्येव । आत्मनेपदम् । आत्मनेभाषा । तादर्थ्ये चतुर्थी । चतुर्थी' इति योगविभागात्समासः ।

९६५ । परस्य च (६-३-८)

परस्मैपदम् । परस्मैभाषा ।


अलुगिति चानुकृष्यते इत्याह । आत्मनस्तृतीयाया अलुगिति ॥ उत्तरपदे परे इति शेषः । पूरण इति वक्तव्यमिति ॥ नात्र पूरणशब्दो गृह्यते । किन्तु स्वरितत्व बलेन पूरणाधिकारविहितप्रत्ययग्रहणात् “प्रत्यग्रहणे' इति तदन्तविधिरित्यभिप्रेत्य आह । पूरणप्रत्ययान्ते इति ॥ आत्मनापञ्चम इति ॥ आत्मा पञ्चम इत्यर्थः । प्रकृत्यादित्वात् प्रथमार्थे तृतीया । यद्वा आत्मकृतपञ्चमत्ववानित्यर्थः । करणे तृतीया । करोतिक्रियान्तर्भावेन तस्याः “तृतीया तत्कृता' इति समासः । पक्षद्वयमपीदं भाष्ये स्थितम् । ननु सङ्कर्षणप्रद्युन्ना निरुद्धास्रयो विष्णुव्यूहाः । जनार्दनस्तु एषां नियन्तेति विष्णुपुराणादौ स्थितम् । तत्रेदमाहुः पौराणिकाः । जनार्दनस्त्वात्मचतुर्थ एवेति ॥ तत्र तृतीयाया अलुकि आत्मनाचतुर्थ इति भवितव्यमित्यत आह । जनार्दनास्त्विति ॥ बहुव्रीहिरिति ॥ आत्मा चतुर्थो यस्येति विग्रहे बहुत्रीहिरित्यर्थः । एकस्याप्यौपाधिकभेद परिकल्प्य वृत्तिपदार्थत्वमन्यपदार्थत्वञ्च विवक्ष णीयमिति भावः । तदिदं भाष्ये स्पष्टम् । वैयाकरणाख्यायाम् ॥ आत्मन इत्येवेति ॥ अनु वर्तत एवेत्यर्थः । न च “ आत्मनश्च' इत्यस्य वार्तिकत्वे कथमिह सूत्रे एतदनुवृत्तिरिति वाच्यम् । “सोपदादौ' इति सूत्रे पठितस्य “काम्ये रोरेवेति वाच्यम्' इति वार्तिकस्य 'इणष्षः' इतिसूत्रे ऽनुवृतिवदुपपत्तेः । व्याकरणे भवा वैयाकरणी सा वासावाख्या च वैयाकरणाख्या तस्यां या चतुर्थी तस्या अलुगित्यर्थः । आत्मनेभाषेति । पूर्वाचार्यकृतमिदमात्मनेपदस्य संज्ञान्तरमिदं धातुपाठे प्रसिद्धम् । तादर्थ्ये चतुर्थीति । तथाचात्मने इत्यस्यात्मार्थमित्यर्थः । आत्म गामिनि फले प्रायेण तद्विधानादिति भावः । ननु प्रकृतिविकाराभावात् कथमिह तादर्थ्ये चतुर्थ्या स्समास इत्यत आह । चतुर्थीति योगविभागादिति ॥ पस्पशाह्निकभाष्ये धर्माय नियमो धर्मनियम इति भाष्यमिह लिङ्गम्। परस्य च ॥ वैयाकरणाख्यायां परशब्दस्यापि चतुर्थ्या १. दीक्षितेन “ आत्मनश्च पूरणे' (वा ३८८२) इति वार्तिकतः 'आत्मनश्च' इत्यंश पृथक्कृत्य ‘वैयाकरणाख्यायाम्-' इति सूत्रेऽनुवृत्त्यर्थ सूत्रत्वमङ्गीकृतम् । परं तु 'काम्ये रोरेव' इति वार्तिकस्य “सोऽपदादौ' इति सूत्रस्थस्येव 'इणः षः' इति सूत्रेऽप्यनुवृत्तिवदत्राप्य नुवृत्तौ दोषाभावेन वार्तिकत्वत्यागे सूत्रत्वाङ्गीकारे बीजाभावः ।