पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/११५

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
६२९
बालमनोरमा

९६९ । मध्याद्गुरौ । (६-३-११)

मध्येगुरुः । “ अन्ताच ' (वा ३८९४) । अन्तेगुरुः ।

९७० । अमूर्धमस्तकात्स्वाङ्गादकामे । (६-३-१२)

कण्ठेकालः । उरसिलोमा किम् । मूर्धशिखः। मस्तकशिखः । * अकामे' किम् । मुखे कामोऽस्य मुखकाम : ।

९७१ । बन्धे च विभाषा । (६-३-१३)

हलदन्तात्सप्तम्या अलुक् । हस्तबन्धः-हस्तवन्ध । * हलदन्तः इति किम् । गुप्तिबन्धः ।

९७२ । तत्पुरुषे कृति बहुळम् । (६-३-१४)

स्तम्बेरमः-स्तम्बरम: । कणेंजपः-कर्णजप । “ क्वचिन्न' । कुरुचरः ।

९७३ । । प्रावृट्छरत्कालदिवां जे । (६-३-१५)

प्रावृषिजः । शरद्विजः । कालेजः । दिविजः । पूर्वस्यायं प्रपञ्चः ।


उरणो मेष इति । नद्यामिति ॥ नद्युत्तारणे तात्कालिकदोहः करः । मध्याद्गुरौ ॥ गुरुशब्दे परे मध्यशब्दात् सप्तम्या अलुक् स्यादित्यर्थः । असंज्ञार्थमिदम् । अन्ता च्चेति ॥ सप्तम्या अलुक् स्यात् गुरौ परे इत्यर्थः । अमूर्धमस्तकात् ॥ मूर्ध मस्तकशब्दवर्जितात् स्वाङ्गवाचकात् सप्तम्या अलुक् स्यात्, नतु कामशब्द उत्तरपदे इत्यर्थः । अत्र संज्ञायामित्यनुवर्तते । अत एव “हृद्दयुभ्यां च' इत्यत्र हृद्रहणमर्थवत् । कण्ठेत्काल इति ॥ शिवस्य नाम । उरासिलोमेति । कस्य चिन्नाम । अतएव ज्ञापकात् व्यधिकरणपदो बहुव्रीहिः । बन्धे च विभाषा ॥ शेषपूरणेन सूत्रं व्याचष्टे । हलदन्ता दिति । हस्तेबन्ध इति ॥ संज्ञायामिति सप्तमीतत्पुरुषोऽयम् । इह तत्पुरुष इति सम्बध्द्यते । बन्ध इति घञन्तम् । अन्यत्र तु “नेन्सिद्ध' इति निषेध इति स्पष्टं भाष्ये । तत्पुरुषे कृति ॥ तत्पुरुषे सप्तम्या बहुळमलुक् स्यात् कृदन्ते उत्तरपदे संज्ञायामित्यर्थः । स्तम्बेरम इति ॥ तृणसमूहः स्तम्बः, तस्मिन् रमत इति स्तम्बरमः हस्ती । कर्णेजप इति ॥ कर्णे जपति परदोषमुपांश्चाविष्करोतीति कर्णेजपः पिशुनः । “स्तम्बकर्णयो रमिजपोः इत्यच । उपपदसमासः । क्वचिन्नेति ॥ बहुळग्रहणादिति भावः । कुरुचर इति ॥ 'चरे ष्टः' इत्यधिकरणे उपपदे चरेष्टः । उपपदसमासः । यद्यपि हलदन्तादित्यनुवृत्त्यैव सिद्धमिदम् । तथापि बहुळग्रहणादेव सिद्धे 'हलदन्तात्' इति नानुवर्तनीयमिति भावः । प्रावृट्छरत् ॥ प्रावृट्, शरत्, काल, दिव्, एषां सप्तम्या अलुक् स्यात् जशब्दे परे संज्ञायामित्यर्थः । ननु 'हल. दन्तात्' इत्येव सिद्धे किमर्थमिदमित्यत आह । पूर्वस्यैवायं प्रपञ्च इति ॥ विस्तार