पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/११७

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
६३१
बालमनोरमा

९७८ । स्थे च भाषायाम् । (६-३-२०)

सप्तम्या अलुग्न । समस्थ भाषायाम्' किम् । कृष्णोऽस्या खरेष्ठः।

९७९ । षष्ठया आक्रोशे । (६-३-२१)

चौरस्यकुलम् । “ आक्रोशे' किम् । ब्राह्मणकुलम् । वाग्दिक्पश्यद्भयो युक्तिदण्डहरेषु' (वा ३८९७) । वाचोयुक्तिः । दिशोदण्डः । पश्यतोहरः। आमुष्यायणामुष्यपुत्रिकामुष्यकुलिकेति च' (वा ३८९८-३८९९) । अमुष्यापत्यमामुष्यायणः । नडादित्वात्फक् । अमुष्यपुत्रस्य भावः आमुष्यपुत्रिका मनोज्ञादित्वादुञ् । एवमामुष्यकुलिका । 'देवानांश्रिय इति च मूर्खें' (वा ३९००) । अन्यत्र देवप्रियः । “शेफपुच्छलाङ्गूलेषु शुनः' (वा ३९०१) शुनःशेफः। शुनोलाङ्गूलः। दिवश्च दासे' (वा ३९०२)। दिवोदासः।


च भाषायाम् अनन्तरस्य' इति न्यायात् “तत्पुरुष कृति' इत्यस्यैवायं निषेधः। अत एव ' अनेकमन्यपदार्थे' इति सूत्रभाष्ये “सप्तम्युपमानपूर्वपदस्य इति वार्तिकव्या ख्यावसरे कण्ठेस्थः कालो यस्येति विग्रहे कण्ठस्थशब्दस्य समासत्वमभ्युपगम्य उत्तरपदलोप उपन्यस्तस्सङ्गच्छते । यदा तु “अमूर्धमस्तकात्' इत्यस्याप्ययं निषेधस्यात्तर्हि तदसङ्गतिस्यात् लुक्प्रसङ्गात् । षष्ठया आक्रोशे ॥ “ अलुगुत्तरपदे' इति शेषः । आक्रोशो निन्दा । वाग्दिक् वाक्, दिक्, पश्यत् एतेभ्यः परस्याः षष्ठया अलुक् स्यात् । युक्ति, दण्ड, हर एतेषु क्रमादुत्तरपदेषु परेष्वित्यर्थः । वाचोयुक्तिरिति । शब्दप्रयोग इत्यर्थः । दिशोदण्ड इति ॥ अधिकरणस्य शेषत्वविवक्षायां षष्ठी । पश्यतोहर इति ॥ पश्यन्तमनादृत्य हरतीत्यर्थ * षष्ठी चानादरे इति षष्ठी । आमुष्यायणेति ॥ वार्तिकमिदम् एते निपात्यन्ते।अमुष्येति।। अमुष्यापत्यमित्यर्थे 'नडादिभ्यः फक्’ इति फकि आयन्नादेशे आदिवृद्धौ तद्धितान्तत्वात् प्रातिपदिकतया तदवयवत्वात् प्राप्तस्य सुब्लुको निषेधे नस्य णत्वे आमुष्यायण इति रूपमि त्यर्थः । अमुष्य पुत्त्रः इति विग्रहे षष्ठीसमासे षष्ठया अलुकि अमुष्यपुत्त्रशब्दः । अमुष्यपुत्त्रस्य भाव इत्यर्थे द्वन्द्वमनोज्ञादिभ्यश्च' इति बुञि अकादेशे पुत्त्रशब्दात् सुपो लुकि आदिवृद्धौ स्रीत्वाट्टापि “प्रत्ययस्थात्' इतीत्वे आमुष्यपुत्रिकाशब्द इत्यथ एवमिति ॥ अमुष्यकुल मिति षष्ठीसमासे षष्ठया अलुकि अमुष्यशब्दाद्रुञादिः पूर्ववदित्यर्थः । देवानामिति ॥ वार्तिक मिदम् । मूर्खः अज्ञः । 'दिवु क्रीडायाम्' देवाः क्रीडासक्ताः मूर्खाः । तेषां प्रियोऽपि मूर्ख एव। मूर्खप्रियस्यावश्यं मूर्खत्वादिति ‘अजेवी' इत्यत्र कैयटः । शेफपुच्छेति ॥ वार्तिकमिदम् । षष्ठया अलुग्धिति शेषः । संज्ञायामिति भाष्यम् । शुनश्शेफ इति ॥ शुनः शेफ इव शेफः यस्येति विग्रहः। मेढ़ेो मेहनशेफसी ” इत्यमरः । शेपशब्दोऽप्यस्ति । “ेपाय स्वाहा' इति दर्शनात् शुनःपुच्छ इति ॥ शुनः पुच्छमिव पुच्छं यस्येति विग्रहः।एवं शुनोलीङ्गूल इत्यपि। ४