पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/११९

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
६३३
बालमनोरमा

९८४ । मातृपितृभ्यां स्वसा । (८-३-८४)

आभ्या परस्य स्वसुः सस्य षः स्यात्समासे । मातृष्वसा । पितृष्वसा । असमासे तु । मातुः स्वसा । पितुः स्वसा ।

इत्यलुक्समासप्रकरणम् ।


शेषः । समासे इति ॥ 'समासेऽडुळेस्सङ्गः' इत्यतस्तदनुवृत्तरिति भावः । मातुःष्वसा, पितुःष्वसेति अलुकि षत्वे रूपम् । मातुःखसा पितुःस्वसेत्यलुकि षत्वाभावे रूपम् । लुक्पक्षे त्विति ॥ विशेषो वक्ष्यत इति शेषः । मातृपितृभ्यां स्वसा ॥ स्वसुरिति ॥ सूत्रे षष्ठयर्थे प्रथमेति भावः । मातृष्वसा । पितृष्वसेति ॥ लुक्पक्षे नित्यमेव षत्वम् । आदेशप्रत्यय सकारत्वाभावादप्राप्ते षत्वविधिरयम् । षत्वविधौ समासग्रहणानुवृत्तेः फलं दर्शयति । अ समासे त्विति ॥ वाक्ये वैकल्पिकं षत्वमपि नास्तीत्यर्थः । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां अलुक्समासप्रकरणं समाप्तम् । 80