पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१२०

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरस्तु ।

॥ अथ समासाश्रयविधिप्रकरणम् ।।

९८५ । घरूपकल्पप्चेलङ्बुवगोत्रमतहतेषु डन्यो ऽनेकाचो ्र। (६-३-४३)

भाषितपुंस्काद्यो ङी तदन्तस्यानेकाचो ह्रस्वः स्याद्वरूपकल्पप्प्रत्ययेषु परेषु, चेलडादिषु चोत्तरपदेषु । ब्राह्मणितरा । ब्राह्मणितमा । ब्राह्मणिरूपा । ब्राह्मणिकल्पा । ब्राह्मणिचेली । ब्राह्मणिबुवा । ब्राह्मणिगोत्रा इत्यादि । बूञः। पचाद्यचि वच्यादेशगुणयोरभावोऽपि निपात्यते । चेलडादीनि वृत्तिविषये कुत्सन वाचीनि । तैः * कुत्सितानि कुत्सनैः' (सू ७३२) इति समासः । *ङयः किम् । दत्तातरा । * भाषितपुंस्कात्' किम् । आमलकीतरा । कुवलीतरा ।


अथ समासाश्रयविधिः निरूप्यते-धरूप ॥ उत्तरपदे इत्यधिकृतं चेचलडादिष्वन्वेति नतु घरूपकल्पेषु । घशब्दवाच्यतरसमपोः रूपप्कल्पोश्च प्रत्ययत्वात् । नच तदन्तग्रहणे सति तेषुत्तरपदत्वं सम्भवतीति वाच्यम् । “हृदयस्य हृल्लेख' इत्यत्र उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणाभाव इति भाष्ये उक्तत्वात् । “स्त्रियाः पुंवत्' इत्यतो भाषितपुंस्कादित्यनुवृत्तम् । डय इति तदन्तग्रहणं, केवलस्यानेकाच्त्वाभावात् । तदाह । भाषितपुंस्काद्यो ङी इति ॥ एतदर्थमेव “स्त्रियाः पुंवत्' इत्यत्र भाषितपुंस्कादिति पञ्चम्यन्तमुपात्तम् । तत्र भाषितपुंस्काया इति षष्ठयन्तोपादाने तु इह तदनुवृत्तिर्न स्यात् । असम्भवात् । नहि ङीप्प्रत्ययस्य तदन्तस्य वा भाषितपुंस्कत्वमस्ति । नच तत्रापि नार्थवत्स्यात् । अनूङिति पर्युदासात् स्त्रीप्रत्ययलाभेन तदन्तस्य भाषितपुंस्कत्वाभाव इति वाच्यम् । तत्र स्त्रिया इत्यस्वरितत्वात् स्त्रीप्रत्ययग्रहणं नेत्युक्तत्वात् । ब्राह्मणितरा । ब्राह्मणितमेति ॥ अतिशायने तरप्तमपौ । नच “तसिलादिषु इति पुंवत्त्वेन ङीपो निवृतिश्शङ्कया । “जातेश्च' इति निषेधात् । ब्राह्मणिरूपेति ॥ प्रशंसायां रूपप् । ब्राह्मणिकल्पेति ॥ 'ईषदसमाप्तौ' इति कल्पप् । ब्राह्मणिचेलीति ॥ 'विल वसने' तस्मादवि चेलडिति पचादौ पठितम् । टित्वात् ङीप् । इत्यादीति ॥ ब्राह्मणिमता । ब्राह्मणिहता । ब्रूञ इति । ब्रूञ्धातोरचि कृते 'ब्रुवो वचिः' इति वच्यादेशस्य लघूपधगुणस्य च अभावो निपात्यते इत्यर्थः । चेवलडादीनीति ॥ समासवृत्तिविषये चेलड्बुवगात्रमढ्हता इत्युत्तरपदानि कुत्सनवाचीनीति कृत्वा ‘कुत्सितानि कुत्सनैः’ इति कर्मधारय इत्यर्थः । आमल कीतरेति ॥ आमलकीशब्दस्य वृक्षवाचित्वे नित्यस्त्रीलिङ्गत्वात् भाषितपुंस्कत्वाभावेन न हृस्व