पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१२१

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
६३५
बालमनोरमा

९८६ । नद्याः शेषस्यान्यतरस्याम् । (६-३-४४)

अङयन्तनद्याः ड-यन्तस्यैकाचश्च घादिषु ह्रस्वो वा स्यात् । ब्रह्म बन्धूतररा-ब्रह्मबन्धुतरा । स्रितरा-स्रीतरा । “। कृन्नद्या न' (वा ३९३८) लक्ष्मीतरा

९८७ । उगितश्च । (६-३-४५)

उगितः परा या नदी तदन्तस्य घादिषु ह्रस्वो वा स्यात् । विदुषितरा । हृस्वाभावपक्षे तु तसिलादिषु-' (सू ८३६) इति पुंवत् । विद्वत्तरा । वृत्त्या दिषु 'विदुषीतरा' इत्यप्युदाहृतम् । तन्निर्मूलम् ।

९८८ । हृदयस्य हृल्लेखयदण्लासेषु

हृदयं लिखतीति हृल्लेखः । हृदयस्य प्रियं हृद्यम् । हृदयस्येदं हार्दम् । हृल्लासः । “लेख-' इत्यणन्तस्य ग्रहणम । घञ्पि तु हृदयलेखः । लेखग्रहणं ज्ञापकम् “उत्तरपदाधिकारे तदन्तविधिर्नास्ति' (प २६) इति ।


इति भावः । ननु ‘न पदान्त' इति सूत्रे भाष्ये बिम्बबदर्यामलकशब्दानां भाषितपुंस्कत्वावगमात् कथमामलकीशब्दस्य वृक्षविशेषे नित्यस्त्रीलिङ्गत्वमित्यरुचेराह । कुवलीतरेति ॥ वृक्षविशेषे नित्यस्त्रीलिङ्गोऽयमिति भावः । अन्तु “कर्कन्धूर्बदरी कोली घोण्टा कुवलफेनिले” इति नपुंसकत्वमाह । नद्याश्शेषस्यान्यतरस्याम् ॥ उक्तादन्यश्शेषः । इयन्तस्यानकाच इति पूर्वसूत्रे स्थितम् । तदन्यत्वं च अनेकाचो डयन्तत्वाभावे ड्यन्तस्यानेकाच्त्वाभावेऽपि सम्भवति । तदाह । अङ-यन्तनद्याः ड-यन्तस्यैकाचश्चेति ॥ ‘ऊडुतः' इति ब्रह्मबन्धु शब्दः ऊङन्तः, भाषितपुंस्कस्येति तु नेहानुवर्तते इत्यभिप्रेत्योदाहरति । स्त्रितरेति ॥ कृन्नद्या नेति ॥ कृदन्ता या नदी तस्या ह्रस्वो नेति वाच्यमित्यर्थः । लक्ष्मीतरेति । “लक्षेर्मुट् च इति औणादिके ईप्रत्यये मुडागमे च लक्ष्मीशब्दः कृदन्त इति भावः । उगितश्च ॥ विदुषि तरेति ॥ 'विदशतुर्वसुः' इति वसुप्रत्यय. । उगिदन्तमिदम् । अनेकाच्त्वात् नद्याश्शेषस्ये त्यस्याप्राप्तरिति भावः । पुंवत्व डीपो निवृत्तौ विद्वत्तरति रूपमित्यर्थः । तन्निर्मुलमिति । पुंवत्वस्य दुर्वारत्वादित्यर्थः । 'विद्वच्छ्रेयसोः पुंवत्वं न वक्तव्यम्’ इति वृत्तिः । परन्तु वचनं भाष्यादृष्टत्वादुपेक्ष्यमिति भावः । अत्रोगितः परा या नदीति मूलं वर्णयोरेव नदीसंज्ञेति मत्ता भिप्रायकम् । हृदयस्य ॥ लेख, यत्, अण् , लास, एषु परेषु हृदयस्य हृदादेश इत्यर्थः । हृदयं लिखतीति हृलखः । कर्मण्यण् । हृदयस्य प्रियं हृद्यमिति ॥ 'हृदयस्य प्रियः' इति यत्प्र त्ययः । हार्दमिति ॥ ‘तस्यदम्’ इत्यण्, हृदादेशः । हृल्लुास इति ॥ घञन्तोऽयमिति भावः । लेखेत्यणन्तस्य ग्रहणमिति । उत्तपदाधिकारे तदन्तविधिर्नास्ति इति ॥