पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
६३६
[
सिद्धान्तकौमुदीसहिता

९८९ । वा शोकष्यञ्जरोगेषु । (६-३-५०)

हृच्छोकः-हृदयशोक । सौहार्द्यम्-सौहृदय्यम् । हृद्रोगः-हृदयरोगः । हृदयशब्दपर्यायो हृच्छब्दोऽप्यस्ति । तेन सिद्धे प्रपञ्चार्थमिदम् ।

९९० ॥ पादस्य पदाज्यातिगोपहतेषु । (६-३-५२)

एघूत्तरपदेषु पादस्य * पद्' इत्यदन्त आदेशः स्यात् । पादाभ्यामजतीति पदाजिः । पदातिः । “ अज्यतिभ्यां पादे च' (उ ५७०-५७१) इतीण्प्रत्ययः । अजेर्व्यभावो निपातनात् । पद्ग । पदोपहृत ।

९९१ । पद्यत्यतदर्थे । (६-३-५३)

पादस्य पत्स्यादतदर्थे यति परे । पादौ विध्यन्ति पद्याः शर्कराः । अतदर्थे' किम् । पादार्थमुदकं पाद्यम् । * पादार्घाभ्यां च' (सू २०९३) इति यत् । “इके चरतावुपसङ्खयानम्' (वा ३९५८) । पादाभ्यां चरति पदिकः । पर्यादित्वात्ष्ठन्

९९२ । हिमकाषिहतिषु च । (६-३-५४)

पद्धिमम् । पत्काषी । पद्धतिः ।


तत्फलन्तु घरूपकल्पब्ग्रहणे तदन्तविद्यभावः । वा शोक ॥ सौहार्द्धमिति ॥ ब्राह्मणादित्वात् भावे ष्यञि 'हृद्रगसिन्ध्वन्ते' इत्युभयपदवृद्धिः । सौहृदय्यमिति । भावे ष्यञि हृच्छब्दत्वा भावात् आदिवृद्धौ ‘यस्येति च' इति लोपे रूपमिति भावः । पादस्य पद ॥ पद इति लुप्तप्रथमाकं पृथक्पदम् । एष्विति ॥ आजि, आति, ग, उपहत इत्येतेष्वित्यर्थः । अदन्त इति ॥ उत्तरसूत्रे पदिति हलन्तस्य ग्रहणादिति भावः । अजतीति ॥ “ अज गतिक्षेपणयोः'। पदातिरिति ॥ पादाभ्यामततीति विग्रहः । “ अत गतौ ' । अज्यतिभ्याम् इति ॥ पादे उपपदे अजधातोरत धातोश्च इण् स्यादिति तदर्थः । अजीत्यस्य * अजेव्यैघञपोः' इति वीभावमाशङ्कय आह । अजेर्व्यभावो निपातनादिति ॥ आजीति निर्देशादित्यर्थः । पदग इति ॥ पादाभ्या गच्छतीत्यर्थः । ‘गमश्च, अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु ड:’ इति सूत्रस्थ ‘अन्येभ्योऽपि दृश्यते’ इति वार्तिकेन गमधातोः डः । तदन्ते गशब्दे परे पादस्यादन्तः पदादेशः । दकारान्तादेशे तु पद्र इति स्यात् । पदोपहत इति ॥ पादाभ्यामुपहत इति विग्रहः । अत्रापि दकारान्ता देशे पदुपहत इति स्यात् । पद्यत्यतदर्थे ॥ पद् यति अतदर्थे इति च्छेदः । पद्या इति ॥

  • विध्यत्यधनुषा' इति यत्प्रत्यय । पाद्यमिति ॥ “पादार्धाभ्याञ्च' इति तादर्थ्ये यत्प्रत्ययः ।

इके चरताविति । चरत्यर्थे विहितस्य ठनो य इकादेशः तस्मिन् परे पादस्य पत्स्यादित्युप सङ्खयानमित्यर्थः । हिमकाषि ॥ एषु परेषु पादस्य पत्स्यादित्यर्थः । पद्धिममिति ॥ पादस्य