पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
६३७
बालमनोरमा

९९३ । ऋचः शे । (६-३-५५)

ऋचः पादस्य पत्स्याच्छे परे । गायत्रीं पच्छः शंसति । पादंपादमि त्यर्थः । “ ऋचः' किम् । पादशाः कार्षापणं ददाति ।

९९४ । वा घोषमिश्रशब्देषु ! (६-३-५६)

पादस्य पत् । पद्धोष:-पादघोषः । पन्मिश्रः-पादमिश्रः । पच्छब्दः पादशब्दः । * निष्के चेति वाच्यम्' (वा ३९५९) । पन्निष्कः-पादनिष्कः ।

९९५ । उद्दकस्योदः संज्ञायाम् । (६-३-२७)

उदमेघः । “उत्तरपदस्य चेति वक्तव्यम्' (वा ३९६१) । क्षीरोदः ।

९९६ । पेर्षवासवाहनधिषु च । (६-३-५८)

उदपेषं पिनष्टि । उदवासः । उदवाहनः । उदधिर्घटः । समुद्रे तु पूर्वेण सिद्धम्।


हिममिति विग्रहः । पत्कार्षीति ॥ पादौ पादाभ्यां वा कषतीत्यर्थः । “सुप्यजातौ' इति णिनिः । पद्धतिरिति ॥ हन्यते इति हृतिः । कर्मणि क्तिन् । पादाभ्यां हृतिरिति विग्रहः । ‘कर्तृ करणे कृता' इति समासः । ऋचः शे ॥ शस्य शस्प्रत्ययैकदेशस्यानुकरणात् सप्तमीत्यभिप्रेत्य उदाहरति । पच्छः इति । 'सङ्खयैकवचनाच्च वीप्सायाम्' इति पादशब्दात् शस् । ‘तद्धितश्चा सर्वविभक्तिः' इत्यव्ययत्वम्, नत्विह लोमादिशब्दस्य ग्रहणम् । लोमादौ पादशब्दस्य पाठा भावात् । पादाः कार्षापणन्ददातीति ॥ कार्षापणाख्यपरिमाणविशेषं सुवर्णादिकं पादम्पाद न्ददातीत्यर्थः । वा घोष ॥ पादपूरणेन सूत्रं व्याचष्टे । पादस्य पदिति । निष्के चेति ॥ पादस्य पदिति शेषः । उदकस्योदः । उदकशब्दस्य उद् इत्यादेशः स्यात् उत्तरपदे संज्ञाया मित्यर्थः । उदमेध इति ॥ उदकपूर्णमेघसादृश्यात् कस्य चिदियं संज्ञा । उत्तरपदस्य चेति ॥ उत्तरपदस्य उदकशव्दस्य उद इत्यादेशः स्यात् संज्ञायामित्यर्थः । क्षीरोद इति ॥ क्षीर उदकस्थानीयं यस्येति विग्रहः । क्षीरोदं सरः इतित्वसाध्वेव । असंज्ञात्वात् । पेषंवास ॥ पेषामिति णमुलन्तमव्ययम् । तस्मिन्वासवाहनधिषु च परतः उदकशब्दस्य उदः स्यादित्यर्थः । असंज्ञार्थं वचनम् । उदपेषंपिनष्टीति । उदकेन पिनष्टीत्यर्थः । ‘स्नहेन पिषः' इति णमुल् । कषादिषु यथाविध्यनुप्रयोगः । उदवास इति ॥ उदकस्य वास इति विग्रहः । उदवाहन इति ॥ करणे ल्युट् । उदकस्य वाहक इत्यर्थः । उदधिर्घट इति । उदकन्धी यतेऽस्मिन्निति विग्रहः । “कर्मण्यधिकरणे व ' इति किप्रत्ययः । असंज्ञात्वस्फोरणाय घटः इति विशेष्यम् । समुद्रे त्विति । तदा उदधिशब्दस्य संज्ञात्वेन ‘उदकस्योदः’ इति पूर्वसूत्रेण