पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१२४

एतत् पृष्ठम् परिष्कृतम् अस्ति
६३८
[समासाश्रयविधि
सिद्धान्तकौमुदीसहिता

९९७ । एकहलादौ पूरयितव्येऽन्यतरस्याम् । (६-३-५९)

उदकुम्भः—उद्ककुम्भः । “ एक-' इति किम् । उदकस्थाली । “ पूरयि तव्य इति वकम् । उदकपर्वतः ।

९९८ । मन्थौद्नसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च । (६-३-६०)

उदमन्थ:-उदकमन्थः । उदौदन:-उदकौदन । इत्यादि ।

९९९ । इको ह्रस्वोऽङ-यो गालवस्य । (६-३-६१)

इगन्तस्याङ-यन्तस्य ह्रस्वो वा स्यादुत्तरपदे । ग्रामणिपुत्रः-ग्रामणी पुत्रः । * इकः ? किम् । रमापतिः । “ अङ-यः' इति किम् । गौरीपतिः ‘गालव ग्रहणं पूजार्थम् । * अन्यतरस्याम्' इत्यनुवृत्तेः । *इयडुवङ्भाविनामव्ययानां च नेति वाच्यम्' (वा ३९६३) । श्रीमदः । धूभङ्गः । शुक्लीभावः । “अभ्रूकुं सादीनामिति वक्तव्यम्' (वा ३९६४) । भ्रुकुंसः-भ्रूकुंसः । भ्रुकुटि:-भ्रूकुटिः। “अकारोऽनेन विधीयते’ इति व्याख्यान्तरम् । भ्रकुंसः । भ्रकुटि: । भ्रुवा कुंसो भाषणं शोभा वा यस्य सः स्त्रीवेषधारी नर्तकः । भ्रुवः कुटिः कौटिल्यम् ।


सिद्धमित्यर्थः । एकहलादौ । हल्त्वस्य एकैकवर्णधर्मत्वादेव सिद्धे एकग्रहणादसंयुक्तत्वं लभ्यते । पूरयितव्यं पूरणार्हं करम्भादि । असंयुक्तहलादौ पूरयितव्यवाचके उत्तरपदे परे उदकस्य उद् इत्यादेशः स्यादित्यर्थः । मन्थौदन । उदकस्य उदादेशो वेति शेषः । अपूरयितव्यार्थं वचनम् । उदमन्थः-उदकमन्थ इति । उदकमिश्रो मन्थ इति विग्रहः । द्रवद्रव्यसम्पृक्ताः सक्तवो मन्थाः । भर्जितयवपिष्टानि सक्तवः । उदौदनः-उदकौदन इति । उदकमिश्र इत्यर्थः । इत्यादीति । उदसक्थवः-उदकसक्थवः । उदबिन्दवः-उदकबिन्दवः । उदवज्रः-उदकवज्रः । उदभारः-उदकभारः । उदहारः-उदकहारः । उदवीवधः-उदकवीवधः । उदगाहः-उदकगाहः । वीवधस्तु जलाद्याहरणयोग्यः उभयतश्शक्यः स्कन्धवाह्यः काष्ठविशेषः । इको ह्रस्वः । अङय इति च्छेदः। ग्रामणीपुत्र इति । कर्मधारयष्षष्ठीसमासो वा । नीधातोरीकारोऽयं, नतु डीप्प्रत्यय इति भावः । ननु गालवग्रहणस्य विकल्पार्थकत्वं किन्न स्यादित्यत आह । अन्य तरस्यामित्यनुवृत्तेरिति । इयडुवङ्भाविनामिति । तदर्हाणामित्यर्थः । श्रीमदः । भ्रूभङ्ग इति । श्रीभ्रूशब्दौ अजादिप्रत्यये परे इयडुवडर्हाविति भावः । शुक्लीभाव इति । अभूततद्रावे च्विप्रत्यये 'अस्य च्वौ' इति ईत्वम् । 'च्वौ' इति दीर्घः । 'ऊर्यादिच्विडा चश्च' इति निपातनात् अव्ययत्वमिति भावः । अभ्रूकुंसादीनामिति । भ्रूशब्दस्य उवड्भावतया हृस्वनिषधो यः प्राप्तः स नेत्यर्थः । अकारोऽनेनेति ॥ ' अ भ्रूकुंसादीनाम् इति वार्तिके अ इति लुप्तप्रथमाकं पृथक्पदम् । तथा च भ्रूकुसादीनामवयवः यो भ्रूशब्दः तस्य सिद्धान्तकौमुदीसहिता . [समासाश्रयविधि