पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१२५

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
६३९
बालमनोरमा

१००० । एक तद्धिते च । (६-३-६२)

एकशब्दस्य ह्रस्वः स्यात्तद्धिते उत्तरपदे । एकस्या आगतमेकरूप्यम् । एकक्षीरम् ।

१०१ । ङन्यापोः संज्ञाछन्दसोर्बहुलम् । (६-३-६३)

रेवतिपुत्रः । अजक्षारम् ।

१००२ । त्वे च । (६-३-६४)

त्वप्रत्यये ङयापोर्वा ह्रस्वः । अजत्वम्-अजात्वम् । रोहिणित्वम्-रोहि णात्वम्।

१००३ । ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे । (६-१-१३)

ष्यङन्तस्य पूर्वपदस्य सम्प्रसारणं स्यात्पुत्रपत्योरुत्तरपदयोस्तत्पुरुषे ।

१००४ । सम्प्रसारणस्य । (६-३-१३९)

सम्प्रसारणस्य दीर्घः स्यादुत्तरपदे । कौमुदगन्ध्यायाः पुत्रः कौमुद गन्धीपुत्रः । कौमुदगन्धीपतिः । व्यवस्थितविभाषया ह्रस्वो न । * स्त्रीप्रत्यये


अकारो अन्तादशः स्यात् इति व्याख्यानान्तरमित्यर्थः । भ्रुवा कुंसो भाषणमिति । तत्त दर्थज्ञापनमित्यर्थः । ‘भ्रुकुंसश्च भ्रकुंसश्च भ्रकुंसश्चेति नर्तकः' इत्यमरः । 'भ्रकुटिर्भ्रुकुटिर्भ्रूकुटिः स्त्रियाम्' इति च । एक तद्धिते च । एकेति लुप्तषष्टीकम् । तदाह । एकशब्दस्येति । स्रीप्रत्ययान्तस्येति शेषः । अन्यथा हस्वविधिवैयर्थ्यात् । उत्तरपदे च, इति चकारात्तदनुकर्ष इति भावः । एकस्याः आगतम् एकरूप्यमिति । हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः । एकक्षीरमिति । एकस्याः क्षीरामिति विग्रहः । ङयापोः ॥ उत्तरपदे हस्वः स्यादिति शेषः । रेवतिपुत्र इति ॥ कस्य चित्संज्ञेयम् । अथ छन्दस्युदाहरति । अजक्षीरमिति । अजायाः क्षीरमिति विग्रहः । “ परमं वा एतत्पयो यदजक्षीरम्” इति तैत्तिरीये । त्वे च । शेषपूरणेन सूत्रं व्याचष्टे । त्वप्रत्यये ड-यापोर्वा ह्रस्व इति । अजत्वं, रोहिणीत्वम् इति ॥ संज्ञात्वाभावात् छन्दस्येवायमिति वृत्तिः । अनुत्तरपदार्थ वचनम् । ष्यङस्सम्प्रसा रणम् । प्रत्ययग्रहणपरिभाषया घ्यङ इति तदन्तग्रहणम् । तदाह । व्यङन्तस्य पूर्वपद स्येति ॥ तस्य सूत्रस्य उत्तरपदाधिकारस्थत्वेऽपि तत्पुरुषग्रहणेन पूर्वपदलाभ इति भावः । उत्तरपदयोरिति । इदमपि तत्पुरुषपदलभ्यम् । यद्वा उत्तरपदाधिकारेण पूर्वपदमाक्षिप्यते । सम्प्रसारणस्य । दीर्घ इति ॥ ' ढूलोपे' इत्यतस्तदनुवृत्तेरिति भावः । उत्तरपदे इति ॥ 'अलुगुत्तरपदे' इति तदधिकारादिति भावः । कौमुदगन्ध्यायाः पुत्र इति ॥ विग्रहवाक्यमिदम् । कुमुदगन्ध इव गन्धो यस्य सः कुमुदगन्धिः । “सप्तम्युपमानपूर्व पदस्य बहुव्रीहिर्वाच्यो वाचोत्तरपदलोपः' इति बहुव्रीहौ कुमुदगन्धशब्दे पूर्वखण्डे उत्तरस्य