पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
६४२
[समासाश्रयविधि
सिद्धान्तकौमुदीसहिता

लोकस्य पृणे' (वा ३९७६) । लोकंपृण पृणः' इति मूलविभुजादि त्वात्कः । इत्येऽनभ्याशस्य' (वा ३९७७) । अनभ्याशमित्यः । दूरतः परि हर्तव्य इत्यर्थ भ्राष्ट्राग्न्योरिन्धे' (वा ३९७८) । भ्राष्ट्रमिन्धः।अग्नि

मिन्धः।गिलेऽगिलस्य' (वा ३९७९) । तिमिङ्गिलः । “अगिलस्य' किम्। गिलगिलः। गिलगिले च' (वा ३९८०) । तिमिङ्गिलगिलः।उष्ण भद्रयोः करणे' (वा ३९८१) । उष्णङ्करणम् । भद्रङ्करणम्

१००८ । रात्रेः कृति विभाषा । (६-३-७२)

रात्रिश्चरः-रात्रिचरः। रात्रिमटः-रात्र्यटः। अखिदर्थमिदं सूत्रम्।


इति।। अस्त्विति तिङन्तप्रतिरूपकमव्ययमभ्युपगम्यते। मुम् वक्तव्य इति शेषः । धेनु म्मव्येति।। नवप्रसवात्प्रागियमुक्तिः। भविष्यन्ती धेनुरित्यर्थः। भव्यगेय ' इति कर्तरि निपातनात् कृत्यप्रत्ययः। धनुश्चासौ भव्या चेति विग्रहः । मयूरव्यंसकादित्वात् भव्या शब्दस्य परनिपातः । लोकस्य पृणे इति।। मुम्वक्तव्य इति शेषः । ननु लोकम्पृणातीति विग्रहे कर्मण्यपि लघूपधगुणे रपरत्वे पर्ण इति स्यादित्यत आह । पृण इति मूलविभु जादित्वात् क इति।।इत्येडनभ्याशस्येति।।मुम् वक्तव्य इति शेषः । अनभ्याश मित्य इति ॥ अभ्याशस्समीपम्, अनभ्याशं दूरं. द्वितीयान्तमिदम् । इण्धातोः प्रापणार्थकात् एतिस्तुशास्' इत्यादिना क्यप् गम्यादीनामुपसङ्खयानम्' इति द्वितीयासमासः । सुब्लुकेि मुम् । दूरं प्रापयितव्यः, नतु समीपमित्यर्थं मनसि निधायाह । दूरतः परिहर्तव्य इति।। भ्राष्ट्राग्न्योरिन्धे इति। मुम वक्तव्य इति शेषः।भ्राष्ट्रामिन्ध इति।। भ्राष्टन्धानादि भर्जनार्हं पात्रम्, तत् इन्धे तापयतीति भ्राष्ट्रमिन्धः , कर्मण्यपि उपपदसमासः । सुब्लुकि, मुम् अग्निमिन्ध इति॥अग्निं प्रज्वलयतीत्यर्थः। गिलेऽगिलस्येति ॥ अगिलस्येति च्छेदः। गिले परे गिलभिन्नस्य मुम् वाच्य इत्यर्थः। तिमीङ्गिल इति गृ निगरणे' । तिमिर्मत्स्य विशेषः । तङ्गिलतीति मूलविभुजादित्वात् कः। ऋत इद्धातोः' इति इत्वे रपरत्वे “ अचि विभाषा' इति लत्वम्, उपपदसमासः । सुब्लुकि मुम् । गिलगिल इति ॥ अयमपि मत्स्य विशेषः । गिलगिले चेति ॥ अगिलस्य मुम् वाच्य इत्यर्थः । तिमिङ्गिलगिल इति।। गिलं गिलतीति गिलगिलः, तिमीनाङ्गिलगिल इति विग्रहः। सम्बन्धसामान्ये षष्ठी । तिमिषु गिलगिल इति निर्धारणसप्तमी वा संज्ञायाम्' इति सप्तमीसमासः । उष्णभद्रयोः करणे इति ॥ मुम् वाच्य इत्यर्थः । उष्णङ्करणम्, भद्रङ्करणमिति षष्ठीसमासः । रात्रेः कृति विभाषा अस्य उत्तरपदाधिकारस्थत्वेन 'प्रत्ययग्रहणे तदन्तग्रहणम्' इति तु इह न भवति । कृतः धातु प्रकृतिकत्वेन रात्रेः कृतः असम्भवात् तदन्तविधिरित्यभिप्रेत्य आह । कृदन्ते परे इति।। रात्रेर्मुम् वा स्यादित्यर्थः । रात्रिञ्चरः-रात्रिचर इति । सुप्युपपदे 'चरे ष्टःउपपदसमासः सुब्लुकि पक्षे मुम् । रात्रिमटः-रात्र्यट इति ॥ सुप्युपपदे मूलविभुजादित्वात् कः।