पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
६४३
बालमनोरमा

खिति तु “अरुद्विषत्–’ (सू २९४२) इति नित्यमेव वक्ष्यते । रात्रिम्मन्यः ।

१००९ । सहस्य सः संज्ञायाम् । (६-३-७८)

उत्तरपदे । सपलाशम् । “संज्ञायाम्' किम् । सहयुध्वा ।

१०१० । ग्रन्थान्ताधिके च । (६-३-७९)

अनयोः परयोः सहस्य सः स्यादुत्तरपदे । समुहूर्तं ज्योतिषमधीते । सद्रोणा खारी ।

१०११ । द्वितीये चानुपाख्ये । (६-३-८०)

अनुमेये द्वितीये सहस्य सः स्यात् । सरराक्षसीका निशा । राक्षसी साक्षादनुपलभ्यमाना निशायानुमीयते ।

१०१२ । समानस्य च्छन्दस्य मूर्धप्रभृत्युदुर्केषु । (६-३-८४)

समानस्य स: स्यादुत्तरपदे न तु मूर्धादिषु । “ अनु भ्राता सगर्भ्यः । अनु सखा सयूथ्यः ।योनःसनुत्यः ।” “ तत्र भवः' इत्यर्थे 'सगर्भसयूथ


उपपदसमासः । सुब्लुक पक्षे मुम् । ननु रात्रिम्मन्यः इत्यत्रापि मुम्विकल्पः स्यादित्यत आह । अखिदर्थमिदं सूत्रमिति ॥ खिति त्विति ॥ खिति तु इमं मुम्विकल्पम्बाधित्वा पूर्व विप्रतिषेधेन “अरुर्द्विषदजन्तस्य' इति नित्यमेव मुमो विधानं कृदधिकारे वक्ष्यते इत्यर्थः । रात्रिम्मन्य इति ॥ 'आत्ममाने खश्च' इति खश् । खशश्शित्त्वेन सार्वधातुकत्वात् तस्मिन् परे देवादिभ्यश्श्यन्' इति श्यनि खित्वान्नित्यं मुमिति भावः । सहस्य सः ॥ उत्तरपदे इति ॥ शेषपूरणेनोक्तमिदम् । सह इत्यस्य स इत्यादेशः स्यादुत्तरपदे इत्यर्थः । “वोपसर्ज नस्य' इत्यस्यापवादः । सपलाशामिति ॥ “तेन सह' इति बहुव्रीहिः । वनविशेषस्य संज्ञेयम् । सहयुध्वेति ॥ 'सहे च' इति क्वनिप् । असंज्ञात्वान्न सभावः । ग्रन्थान्ता धिके च । ग्रन्थान्तश्च अधिकश्च इति समाहारद्वन्द्वः । अनयोरर्थयोरिति ॥ विद्य मानस्त्याति शेषः । समुहूर्तमिति ॥ मुहूर्तविधिपरग्रन्थपर्यन्तं ज्योतिःशास्रमधीते इत्यर्थः । अन्तवचने अव्ययीभावः । “अव्ययीभावे चाकाले' इत्यत्र कालपर्युदासादप्राप्ते सभावे ग्रन्थान्तग्रहणम् । सद्रोणा खारीति ॥ द्रोणपरिमाणादधिकेत्यर्थः । मयूरव्यंसकादित्वात् सहशब्दस्याधिकवाचिनस्समासः सभावश्च । द्वितीये चानुपाख्ये ॥ अप्रधानेऽसहाये द्वितीयशब्दो लाक्षणिकः । उपाख्यायते प्रतीयते उपलभ्यते इत्युपाख्यम्, तदन्यदनुपाख्यम् । अनुमेयामिति यावत् । तदाह । अनुमेय इति ॥ सहायवाचिन्युत्तरपदे परत इत्यर्थः । सरक्षसीका निशेति ॥ “तेन सह' इति बहुव्रीहिः । 'नद्युतश्च' इति कप् । अनुमेय राक्षसीसहिता निशेत्यर्थः । तदाह । राक्षसी साक्षादिति ॥ समानस्य ॥ नतु मूर्धा ‘दष्विति ॥ मूर्धन्, प्रभृति, उदर्क, एषु परेषु नेत्यर्थः । सगर्भ्य इति ॥ समाने गर्भे भव