पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१३२

एतत् पृष्ठम् परिष्कृतम् अस्ति
६४६
[समासाश्रयविधि
सिद्धान्तकौमुदीसहिता

सदृक्-सदृशः । “दृक्षे चेति वक्तव्यम्' (वा ३९९२) । सद्यक्ष । वतुरुत्तरार्थः ।

१०१८ । इदंकिमोरीश्की । (६-३-९०)

दृग्दृशवतुषु इदम ईश् किमः की स्यात् । ईदृक्-ईदृशः । कीदृक्-कीदृशः। वतूदाहरणं वक्ष्यते । “दक्षे चेति वक्तव्यम्' (वा ३९९२) ईदृक्षः । कीदृक्षः । - तावान्-तादृक्षः । दीर्घः, मत्वोत्वे । अमूदृशः-अमूदृक्-अमूदृक्षः ।

१०१९ । समासेऽङ्गुलेः सङ्गः । (८-३-८०)

अङ्गुलिशब्दात्सङ्गस्य सस्य मूर्धन्यः स्यात्समासे । अङ्गुलिषङ्गः । समासे ' कम् । अडुलः सङ्गः ।

१०२० । भीरोः स्थानम् । (८-३-८१)

भीरुशब्दात्स्थानस्य सस्य मूर्धन्यः स्यात्समासे । भीरुष्ठानम् । असमासे तु भीरो: स्थानम् ।

१०२१ । ज्योतिरायुषः स्तोमः । (८-३-८३)


समानस्य स इति शेषः । सदृक्-सदृश इति ॥ समानेो दृश्यते इत्यर्थे 'समाना न्ययोश्च' इति दृशेः क्विन् कञ् च । “दृक्षे च' इति समानस्य सत्त्वमिति शेषः । सदृक्ष इति ॥ 'क्सो सुपि वाच्यः' इति दृशेः क्सः । वतुरुत्तरार्थ इति । यत्तदेतेभ्यः परिमाण वतुपः समानशब्दादसम्भवात् इति भावः । इदङ्किमोरीश्की ॥ ईश की इति द्वे पदे । इद्दक् ईदृश इति ॥ इदमिव दृश्यते इत्यर्थे त्यदादिषु दृशेः क्विन्कञौ । ईशशित्त्वं सर्वादेशत्वाय वक्ष्यते इति तद्धितप्रकरणे इयान् इत्युदाहरणं वक्ष्यते इत्यर्थः । दृक्षे चेति ॥ इदङ्किमोः ईश्की वक्तव्यौ इति शेषः । आ सर्वनाम्नः इति ॥ आ इति लुप्तप्रथमाकम् । तादृक् तादृश इति । तदिव दृश्यते इत्यर्थे 'त्यदादिषु दृशः’ इति क्विन्कञौ । तदो दकारस्य आत्वे सवर्णदीर्घः । तावानिति ॥ तत् परिमाणमस्येति विग्रहे यत्तदेतेभ्यः इति वतुप् । तादृक्ष इति । तदिव दृश्यते इति विग्रहः । अमूदृगित्यत्र प्रक्रियान्दर्शयति । दीर्घ इति ॥ अदसः आत्वे कृत सवर्णदीर्घः। । ततः ऊत्त्वमत्वे कृते इत्यर्थः । असेरिति व्याख्यानेऽपि अकारण आकारस्यापि ग्रहणात् ऊत्त्वमत्वे । समासेऽङ्गुले. सङ्गः ॥ भीरोः स्थानम् ॥ ज्योतिरायुषस्तोमः ॥ अत्र त्रिसूत्र्याम् “ अङ्गुळेस्सङ्गः, भीरो स्थानम्, ज्योति रायुषः स्तोमः' इत्याद्यर्थे प्रत्यासक्त्या तयोः पदयोः समासे सति उत्तरपदस्थस्य सस्य