पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
६४७
बालमनोरमा

. आभ्यां स्तोमस्य सस्य मूर्धन्यः समासे । ज्योतिष्टोमः । आयुष्टोमः । समासे' किम् । ज्योतिषः स्तोमः ।

१०२२ । सुषामादिषु च । (८-३-९८)

सस्य मूर्धन्यः । शोभनं साम यस्य सुषामा । सुषन्धिः ।

१०२३ । एति संज्ञायामगात् । (८-३-९९)

(ग १८२) । सस्य मूर्धन्यः । हरिषेणः । “एति' किम् । हरिसक्थम् । संज्ञायाम्' किम् । पृथुसेनः । * अगकारात्' किम् । विष्वक्सेनः * इण्कोः इत्येव । सर्वसेनः ।

१०२४ । नैक्षत्राद्वा । (८-३-१००)

(ग १८३) । एति सस्य संज्ञायामगकारान्मूर्धन्यो वा । रोहिणीषेणः- रोहिणीसेनः । * अगकारात्' किम् । शतभिषक्सेनः । आकृतिगणोऽयम् ।

१०२५ । अषष्ठ-यतृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थितो त्सुकोतिकारकरागच्छेषु । (६-३-९९)

अन्यशब्दस्य दुगागमः स्यादाशीरादिषु परेषु । अन्यदाशीः । अन्य दाशा । अन्यदास्था । अन्यदास्थितः । अन्यदुत्सुकः । अन्यदूतिः । अन्यः द्रागः । अन्यदीयः । * अषष्ठी-' इत्यादि किम् । अन्यस्यान्येन वाशी रन्याशीः । “कारके छे च नायं निषेधः' (वा ५०४८) । अन्यस्य कारको ऽन्यत्कारः । अन्यस्यायमन्यदीय: । गहादेराकृतिगणत्वाच्छः ।

.


षः इत्यर्थः । तद्वनयन् प्रत्युदाहरति । अङ्गुळेः सङ्गः इत्यादि ॥ नेह 'इण्कोः' इत्यनु वर्तते । व्याख्यानात् । सुष्षामादिषु च ॥ स्पष्टम् । एति संज्ञायामगात् ॥ एकारे परेसस्य षः स्यादित्यर्थ । नक्षत्राद्वा ।। स्पष्टम् । अषष्ठत्यतृतीयास्थस्य । अषष्ठयाम् अतृतीयायाञ्च परतस्तिष्ठतीति अषष्ठयतृतीयास्थः तस्य अषष्ठीतृतीयान्तस्येत्यर्थः । अषष्ठी तृतीयास्थस्येत्येव सिद्धे नञ्द्वयोपादानं स्पष्टार्थम् । आशीरादिष्विति ॥ आशीः, आशा, आस्था, आस्थित, उत्सुक, ऊति, कारक, राग, छ, इत्येतेषु इत्यर्थः । दुकि ककार इत् । उकार उच्चारणार्थः । कित्वादन्तावयः । अन्यदाशीरित्यादयः कर्मधारयाः । नायं निषेध इति । “ अषष्ठयतृतीयास्थस्य' इति निषेधः कारकच्छयोनस्तीत्यर्थः । भाष्योक्तमिदम् । १-२. सुषामाद्यन्तर्गणसूत्रे एते इति तत्त्वबोधिनी । ३. अत्र च “अषष्ठयस्तृतीयास्थस्येत्युच्यते । तत्रेदं न सिध्यति—अन्यस्येदमन्यदीयम् । अन्यस्य कारकोऽन्यत्कारक इति । एवं तर्हि-अविशेषेण “ अन्यस्य दुक् छकारकयोः' ततो वक्ष्यामि “ अषष्ठयतृतीयास्थस्याशीराशास्थास्थितोत्सुकोऽतिरागेषु' इति ” इति भाष्यमेव मानम्।