पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
६४९
बालमनोरमा

१०३२ । विभाषा पुरुषे । (६-३-१०६)

कापुरुषः-कुपुरुषः । अप्राप्तविभाषेयम् । ईषदर्थे हि पूर्वविप्रतिषेधा न्नित्यमेव । ईषत्पुरुषः कापुरुषः ।

१०३३ । कवं चोष्णे । (६-३-१०७)

उष्णशब्देउत्तरपदे कवं का च वास्यातू।कवोष्णम् -कोष्णम्-कदुष्णम्

१०३४ । पृषोदरादीनि यथोपदिष्टम्। (६-३-१०९)

पृषोदरप्रकाराणि शिष्टैर्यथोच्चारितानि तथैव साधूनि स्यु । पृषदुदरं पृषोदरम्। तलोपः । वारिवाहको वलाहकः । पूर्वपदस्य वः । उत्तरपदादेश्च लत्वम्।

  • भवेद्वर्णागमाद्धंसः सिंहो वर्णविपर्ययात् ।

गूढोऽत्मा वर्णविकृतेर्वर्णनाशात्पृषोदरम् ।।'


कदादेशमाशङ्कय आह । अजादावपीति । विभाषा पुरुषे । को: का इत्यादेश इति शेषः । अप्राप्तविभाषेति । ननु कोः ईषदर्थकत्वे सति ‘ईषदर्थे' इति नित्ये कादेशे प्राप्ते विकल्पसम्भवात् इत्यत आह । ईषदर्थे हीति । वृत्त्यनुसारेणेदमुक्तम् । पूर्वविप्रतिषेधस्य भाष्यानुक्तत्वात् । कवञ्चोष्णे ॥ कवं का च वेति ॥ विभाषेत्यनुवृत्तेरिति भावः । उभयाभावे कदादेशः । तथाच रूपत्रयम्। तदाह । कोष्णम्-कवोष्णम्-कदुष्णमिति ॥ पृषोदरादीनि यथोपदिष्टम् । आदिशब्दो न प्रभृतिवाची । गणपाठे पृषोदरादिपाठ स्यादर्शनात् यथोपदिष्टपदस्य वैयर्थ्याच । किन्तु प्रकारवाची । तदाह । पृषोदरप्रकाराणी ति ॥ प्रकारः सादृश्यं, तच्च शास्रोक्तलोपागमादेशादिरहितत्वेन बोध्यम् । व्याकरणशास्रगृही तानीति यावत् । उपपूर्वको दिशिरुचारणार्थः । भावे क्त । उपादष्टमुपदेशः उच्चारणं, तदन तिक्रम्य यथोपदिष्टम् । यथार्थपदार्थानतिवृत्तावव्ययीभाव । शिष्टैरित्यध्याहार्यम् । तथाच फलितमाह । शिष्टैर्यथोच्चारितानि तथैव साधूनीति । ‘शिष्टास्तु शब्दतत्वसाक्षा त्कारवन्तः योगिनः, इति भाष्यकैयटयोः स्पष्टम् । तलोप इति । षष्ठीसमासे सुब्लुकि तलोपे ‘आद्गुणः’ इति भावः । पूर्वपदस्येति । वारिवाहकशब्दे वारिशब्दस्य पूर्वपदस्य वकारस्सर्वादेशः । वाहकशब्दः उत्तरपदं तदादेर्वकारस्य लकारादेश इत्यर्थः । भवेद्वर्णागमा द्धंस इति । हनधातोः पचाद्यचि अनुस्वारागमे हंस इति रूपमित्यर्थः । हनधातोराचि सगागमे 'नश्चापदान्तस्य’ इति अनुस्वार इत्यन्ये । सिंहो वर्णविपर्ययादिति ॥ “ हास हिंसायाम्' इत्यतः पचाद्यवि इदित्वान्नुम् । *नश्च' इत्यनुस्वारः । हकारस्य सकारः सकारस्य हकारश्च । सिंह इति रूपमित्यर्थः । यद्यपि हंससिंहयोरुणादौ व्युत्पत्तिरुक्ता । तथाप्युणादिसूत्राणां शाकटायनप्रणीतत्वेन शास्त्रान्तरत्वादिह व्युत्पादनं न दोष इत्याहुः। गूढोत्मा वर्णविकृते रिति । गूढः आत्मा यस्येति बहुव्रीहौ उत्तरपदादेराकारस्य उकारे आद्गुणे रूपम् इति 82