पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
६५०
[समासाश्रयविधि
सिद्धान्तकौमुदीसहिता

दिक्छब्देभ्यस्तीरस्य तारभावो वा' (वा ३९९९) । दक्षिणतारम्-दक्षिण तीरम् । उत्तरतारम्-उतरतीरम् । “दुरा दाशनाशदभध्येषूत्वमुत्तरपदादेः श्रुत्वं च' (वा ४००१) । दुःखेन दाश्यते दूडाशः । दुःखेन नाश्यते दूणाशः । दुःखेन दभ्यते दूडभ: । खलू त्रिभ्य: । दम्भेर्नलोपो निपात्यते । दुःखेन ध्यायतीति दूढयः । * आतश्च-' (सू २८९८) इति कः । ब्रुवन्तो ऽस्यां सीदन्तीति बृसी । बुवच्छब्दस्य ‘वृ' आदेशः । सदेरधिकरणे डट् ।

१०३५ । संहितायाम् । (६-३-११४)

अधिकारोऽयम् ।

१०३६ । कर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्र स्रुवस्वस्तिकस्य । (६-३-११५)


भावः । वर्णनाशात्पृषोदरमिति । पृषत् उदरमित्यत्र तकारलोपे सति आद्गुणे पृषोदर मिति भवतीत्यर्थः । दिक्छब्देभ्यः तीरस्येति । वार्तिकम्। दुरो दाशेति । इदमपि वार्तिकम् । दुर् इत्यस्य दाश, नाश, दभ, ध्य, इत्येतेषु परेषु उत्वम् उत्तरपदादेः ष्टुत्वञ्च वक्तव्यमित्यर्थः । दूडाश इति । दुर् दाश इति स्थिते रेफस्य उत्वे सवर्णदीर्घः । दाशेः दकारस्य ष्टुत्वेन डकारः । दूणाश इति । दुर् नाश इति स्थिते रेफस्य उत्वं सवर्णदीर्घः । नाशेर्नकारस्य ष्टुत्वेन णत्वम् । दूडभ इति ॥ दुर्दभ इति स्थिते रेफस्य उत्वं, सवर्णदीर्घः । दभेर्दकारस्य ष्टुत्वेन डकारः । खलु त्रिभ्य इति ॥ “दाश्रृ दाने ' ' णश अदर्शने ' ण्यन्तः ।

  • दभ हिंसायाम्' इति त्रिभ्यः धातुभ्यः 'ईषडुस्सुषु' इति खल्प्रत्यय इत्यर्थः । ननु किङित्परकत्वा

भावात् कथमिह 'अनिदिताम्' इति नलोपः इत्यत आह । दम्भेर्नलोपो निपात्यते इति ॥ दूढ्य इति । दुर् ध्यः इति स्थिते रेफस्य उत्वं सवर्णदीर्घः, धस्य ष्टुत्वेन ढत्वम् । आतश्रेति ॥ “ध्यै चिन्तायाम्’ “आतश्चोपसर्गे' इति कप्रत्यये ' आदेच उपदेशे ? इति आत्वे

  • आतो लोप इटि च' इत्याल्लोपे ध्यशब्द इत्यर्थः । सदेरिति । सदधातोः अधिकरणेऽर्थे डटि

डित्वसामर्थ्यादभस्यापि टेर्लोपे स इति रूपम् । बुवत् स इति स्थिते उपपद समासे सुब्लुकि ब्रुवच्छब्दस्य बृ इत्यादेशे बृसशब्दात् 'टिड्ढ' इति डीपि बृसीति रूपमिति भावः । दिक्छब्देभ्यः इत्यारभ्य एतदन्तस्सन्दर्भः पृषोदरादीत्यस्यैव प्रपञ्चः । गणोऽयमिति । पृषोदरादिरित्यर्थः । तेन कर्तुकामः, कर्तुमनाः, इत्यादिसङ्ग्रह । संहि तायाम् ॥ सुगमम् । कर्णे लक्षणस्य ॥ दीर्घविधिः । 'ढ्रलोपे' इत्यतस्तदनुवृत्तेः । लक्षणशब्देन यत्पशूनां स्वामिविशेषसम्बन्धज्ञानार्थ दात्रशूलचक्राद्याकारचिह्नं क्रियते तल्लक्षण शब्देन विवक्षितम्। तेन लम्बकर्णः इत्यादौ नातिप्रसङ्गः । द्विगुणाकर्ण इति।। द्विगुणरेखौ