पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
६५४
[समासाश्रयविधि
सिद्धान्तकौमुदीसहिता

१०४७ । चितेः कपि । (६-३-१२७)

एकचितीकः । द्विचितीवकः ।

१०४८ । नरे संज्ञायाम् । (६-३-१२९)

विश्वानर ।

१०४९ । मित्त्रे चर्षों । (६-३-१३०)

विश्वामित्रः । “ ऋषौ' किम् । विश्वमित्रो माणवकः । *शुनो दन्त दंष्ट्राकर्णकुन्दवराहपुच्छपदेषु दीर्घो वाच्यः’ (वा ५०४९) । श्वाद्न्त इत्यादि ।

१०५० । प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपीयूक्षाभ्यो ऽसंज्ञायामपि । (८-४-५)

एभ्या वनस्य णत्व स्यात् । प्रवणम् । कार्ष्यवणम् । इह षात्परत्वा

१०५१ । विभाषौषधिवनस्पतिभ्यः । (८-४-६)

अष्टापदमिति ।


संज्ञात्वमन्वेषणीयम् । चितेः कपि ।। दीर्घ इति विशेषः । एकचितीक

इति । अग्न्याख्यस्थण्डिलविशेष इति शेष । एका चितिर्यस्येति विग्रह । शैषिकः कप् । द्विचितीक इति । द्वे चिती यस्येति विग्रहः । नरे संज्ञायाम् । विश्वस्य दीर्घ इति शेषः। ‘विश्वस्य वसुराटोः’ इति पूर्वसूत्रात् विश्वस्येत्यनुवर्तते । मित्त्रे चषौं । मित्त्रशब्दे परे विश्वस्य दीर्घः स्यात् ऋषौ वाच्ये इत्यर्थः । शुनो दन्तेति । श्वन्शब्दस्य दन्तादिषु परतः दीर्घ इत्यर्थः । श्वादन्त इति । शुनो दन्त इति विग्रहः । श्वादंष्ट्रा, षष्ठीसमास । दीर्घान्त एव दंष्ट्राशब्दो वार्तिके पठ्यत इति केचित् । ह्रस्वान्त इत्यन्ये । श्वादंष्ट्रः । बहुव्रीहिरयम् । श्वाकर्णः, श्वाकुन्दः, श्वावराहः, श्वापुच्छम्, श्वापदः, श्वपुच्छमवनामितमित्यसाध्वेव । प्रनिरन्तः । एभ्य इति । प्र, निर्, अन्तर्, शर, इक्षु, प्लक्ष, आम्र, कार्ष्य, खदिर, पीयूक्षा, इत्येतेभ्यः इत्यर्थः । वनस्येति । “वनं पुरगा' इत्यतः तदनुवृत्तरिति भावः । प्रवणमिति । प्रकृष्टं वनमिति विग्रहः । प्रादिसमासः । इहेति । कार्ष्यवण मित्यत्र षकारात्परत्वेन णत्वम्, नतु रेफात् परत्वमादाय , अडादिभिन्नषकारेण व्यवधानादिति भावः । एतेन कार्श्येति तालव्यशकारमध्यपाठः अप्रामाणिक इति सूचितम् । तथा सति निमित्ताभावात् णत्वासम्भवात् अट्कुप्वाङ्भिन्नेन शकारेण व्यवहिततया रेफस्य तन्निमित्तत्वा सम्भवात् निर्वणं, अन्तर्वणं, शरवणम्, इक्षुवणम्, प्लक्षवणं, आम्रवणं, खदिरवणं, पीयूक्षावणम् । विभाषौषधि । वनस्य णत्वमिति ॥ ओषधिवनस्पतिभ्यः परस्य वनस्य यो नकारस्तस्य १. इदं च “ अन्येषामपि-' (६-३-१३७) इति सूत्रप्रपञ्चभूतम् ।