पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
६५५
बालमनोरमा

एभ्या वनस्य णत्वं वा स्यात् । दूर्वावणम्-दूर्वावनम् । शिरीषवणम शिरीषवनम् । “ व्द्यच्त्र्यज्भ्यामेव' (वा ४९८४) । नेह । देवदारुवनम् । इरिकादिभ्यः प्रतिषेधो वक्तव्यः’ (वा ४९८५) । इरिकावनम् । मिरिका वनम्।

१०५२ । वाहनमाहितात् । (८-४-८)

आरोप्य यदुह्यते तद्वाचिस्थान्निमित्तात्परस्य वाहननकारस्य णत्वं स्यात् । इक्षुवाहणम् । “ आहित्तात्' किम् । इन्द्रवाहनम् । इन्द्रस्वामिकं वाहनमित्यर्थः । वहतेर्ल्युटि वृद्धिरिहैव सूत्रे निपातनात् ।

१०५३ । पानं देशे । (८-४-९)

पूर्वपदस्थान्निमित्तात्परस्य पानस्य नस्य णत्वं स्याद्देशे गम्ये । क्षीरं पानं येषां ते क्षीरपाणा उशीनराः । सुरापाणाः प्राच्या:। पीयत इति पानम् । कमाण ल्युट् ।

.


णत्वं वेत्यर्थः । ओषधिभ्यः उदाहरति । दूर्वावणमिति । “ओषध्यः फलपाकान्ताः” इत्यमरः । अथ वनस्पतिभ्यः उदाहरति । शिरीषवणमिति । यद्यपि यः पुष्पैर्विना फलति, स एव उदुम्बरादिर्वनस्पति वानस्पत्यः फलैः पुष्पातैरपुष्पाद्वनस्पतिः” इत्युक्त शिरीषवृक्षश्चायं पुष्पफलवानेव न वनस्पतिः । तथापि वनस्पतिशब्देनात्र वृक्षसामान्यं विव क्षितम् । अत एव 'लुपि युक्तवव्द्यक्तिवचने' इति सूत्रे भाष्ये शिरीषवणमित्यत्र शिरीषे वनस्पतित्वं व्यवहृतमिति दिक् । ड्यच्ञ्यज्भ्यामेवेति । परस्य वनस्य णत्वं वाच्यमिति शेषः । देवदारुवनमिति । प्रत्युदाहरणम् । इरिकादिभ्य इति । एभ्यः परस्य वनस्य णत्वप्रतिषेध इत्यर्थः । वाहनमाहितात् ॥ वाहने आधीयते वहनाय यत्, नतु स्वयमेवारोढुं शक्रोति तदाहितम् । तदाह । आरोप्येते ॥ निमित्तादिति ॥ रेफषकारा न्यतरस्मादित्यर्थः।वाहनकारस्येति।। वाहनस्य यो नकारस्तस्य्त्यर्थः। अनेन सूत्रे वाहनामिति षष्ठयर्थे प्रथमेति सूचितम् । इक्षुवाहणमिति । इक्षवो हि वाहनाय परैरारो प्यन्ते, नतु स्वयमेवारोढुं शक्नुवन्ति इति तेषामाहितत्वम्बोध्यम् । आरोपितेक्षुयुक्तं शकटादि वाहनमिति यावत् । इन्द्रवाहनमिति ॥ ऐरावतादाविन्द्रस्य स्वयमेवारोहणान्ना हितत्वामिति भावः । यदि कदावित् अन्येन वाहने आरोप्यते तदा आहितत्वमिन्द्रस्याप्यस्त्येव । यदा इन्द्रः स्वयमेवारोहति वाहनं, तदा प्रत्युदाहरणामिति मनसि निधाय आह । इन्द्रस्वामि कमिति । ननु वहेः करणे ल्युटि कथमुपधादीर्घः । ञ्णित्प्रत्ययपरकत्वाभावादित्यत आह । वहेर्ल्युडिति ॥ पानन्देशे ॥ पानमिति षष्ठयर्थे प्रथमेत्यभिप्रेत्य आह । पानस्येति । उशी नरा इति ॥ देशविशेषे बहुवचनान्तोऽयम् । ननु पानशब्दस्य भावल्युङन्तत्वे क्षीरम्पानमिति ४४