पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
६५६
[समासाश्रयविधि
सिद्धान्तकौमुदीसहिता

१०५४ । वा भावकरणयोः । (८-४-१०)

  • पानस्य' इत्येव । क्षीरपानम्-क्षीरपाणम् । “गिरिनद्यादीनां वा '

(वा ४९८९) । गिरिनदी-गिरिणदी । चक्रनितम्बा-चक्रणितम्बा ।

१०५५ । प्रातिपदिकान्तनुम्विभक्तिषु च । (८-४-११)

पूर्वपदस्थान्निमित्तात्परस्य एषु स्थितस्य नरस्य णो वा स्यात् । प्राति पदिकान्ते । माषवापिणौ । नुमि ब्रीहिवापाणि। विभक्तौ माषवापेण। पक्षे माषवापिनावित्यादि । “उत्तरपदं यत्प्रातिपदिकं तदन्तस्यैव णत्वम् । (वा ४९९०) । नेह । गर्गाणां भगिनी गर्गभगिनी । अत एव नुम्ग्रहण


कथं सामानाधिकरण्यमित्यत आह । पीयते इति । वा भावकरणयोः ॥ इत्येवेति । अनुवर्तत एवेत्यर्थः । भावे करणे च यः पानशब्दः तस्य उक्तविषये णो वा स्यादित्यर्थः । आदेशार्थ वचनम् । क्षीरपानम्-क्षीरपाणमिति ॥ क्षीरस्य पानमिति विग्रहः। भावे करणे वा ल्युट् । पानक्रिया पानमात्रं वेत्यर्थः । गिरिनद्यादीनामिति ॥ पूर्वपदस्थान्निमित्तात्परस्य उत्तरपदस्थस्य नस्य णो वेत्युपसङ्खयानमित्यर्थः । गिरेर्नेदीति विग्रहः । चक्रनितम्बेति ॥ चक्रमिव नितम्बो यस्यास्सा इति विग्रहः । प्रातिपदिकान्त ॥-पूर्वपदस्थादिति । “पूर्व पदात्संज्ञायाम्' इत्यतस्तदनुवृत्तेरिति भाव । एषु स्थितस्येति । प्रातिपदिकान्ते नुमि विभक्तौ च विद्यमानस्येत्यर्थः । वा स्यादिति । “वा भावकरणयोः' इत्यतस्तदनुवृत्तेरिति भावः । प्रातिपदिकान्ते इति । उदाहरणं वक्ष्यते इति शेष । माषवापिणाविति । माषान् वपते इति विग्रहः । 'बहुळमाभीक्ष्ण्ये' इति जातावपि सुप्युपपद णिनिः । उपपद समासः । वापिन्शब्दस्य कृदन्तत्वेन प्रातिपदिकत्वात् तदन्तनस्य णत्वमिति भावः । नुमी ति ॥ उदाह्रियते इति शेषः । व्रीहिवापाणीति । कृषीवलकुलानीति शेषः । व्रीहीन्वपन्ति इति विग्रहः । कर्मण्यण् । व्रीहिवापशब्दान्नपुंसकात् “जश्शसोश्शिः, नपुंसकस्य झलचः' इति नुमि सर्वनामस्थाने च' इति दीर्घः । नुमो नस्य णत्वामिति भावः । विभक्ताविति । उदाह्रियते इति शेषः । माषवापेणेति । तृतीयाविभक्तिस्थत्वान्नस्य णत्वम् । इत्यादीति ॥ णत्वा भावपक्षे माषवापिनौ, माषवापीनि, माषवापेन, इत्युदाहार्यमिति भावः । ननु गर्गाणां भगिनी गर्गभगिनीत्यत्र डीप्प्रत्ययप्रकृतिभूतभगिन्शब्दात्मकप्रातिपदिकान्तत्वात् नकारस्य णत्वविकल्पः कुतो न स्यादित्यंत आह । उत्तरपदं यत्प्रातेिपांदेवकन्तदन्तस्यैव णत्वमिति । पूर्वपदेन उत्तरपदमाक्षिप्तम्। तच्च प्रातिपदिकस्यैव विशेषणम्, नतु तदन्स्य, नापि नुम्वि भक्त्योः । असम्भवादिति भावः । नेहेति । गर्गाणाम्भगिनी गर्गभगिनीति षष्ठीसमासे भगिनीशब्द उत्तरपदं, नतु तत्प्रातिपदिकं, प्रत्ययान्तत्वात् । लिङ्गविशिष्टपरिभाषया“प्राति पादकग्रहणेन भगिनीशब्दस्य ग्रहणेऽपि तदन्तम् ईकार एव, नतु नकारः, अतो न तस्येदं पाक्षिकं णत्वमिति भावः । प्रातिपदिकस्योत्तरपदत्वविशेषणं सूत्रकारस्य सम्मतमित्याह