पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
६५७
बालमनोरमा

कृतम् । अङ्गस्य नुम्विधानात्तद्भक्तो हि नुम्। न तूत्तरपदस्य । किं च । *प्रहि ण्वन्’ इत्यादौ हिवेर्नुमो णत्वार्थमपि नुम्ग्रहणम् । 'प्रेन्वनम्' इत्यादौ तु क्षुभ्रा दित्वान्न । युवादेर्न । (वा ४९९९) रम्ययूना । परिपक्वानि । “एकाजुत्तरपदे ण:’ (सू ३०७) । “नित्यम्' इत्युक्तम् । वृत्रहणौ । हरिं मानयतीति क्विपि हरिमाणी । नुमि, क्षीरपाणि । विभक्तौ, क्षीरपेण । रम्यविणा ।

.


अत एवेति ॥ प्रातिपदिकस्य उत्तरपदत्वविशेषणादेव सूत्रकारेण कृतं नुम्ग्रहणमर्थवत् । अन्यथा तदनर्थकमित्यर्थः । कुत इत्यत आह । अङ्गस्येति ॥ 'नपुंसकस्य झलचः’ इति नुम्विधौ अङ्गस्येत्यनुवृत्तम् । तथाच झलन्तस्याजन्तस्य चाङ्गस्य क्लीबस्य नुम् स्यात् सर्व नामस्थाने इत्यर्थो लभ्यते । माषवापाणीत्यत्र तु सवेनामस्थानं प्रति माषवापशब्दोऽङ्गम् । तस्य माषवापशब्दस्य विहितो नुमागमस्तदवयव एव भवति, नतु उत्तरपदभूतवापशब्द स्यैवावयवः । तथाच उत्तरपदभूतप्रातिपदिकान्तत्वाभावात् “प्रातिपदिकान्त' इत्यनेन णत्व विकल्पस्याप्राप्तौ नुम्ग्रहणम् । प्रातिपदिकस्य उत्तरपदत्वविशेषणाभावे तु माषवापशब्दान्ता वयवस्यापि नुमः वापेति प्रातिपदिकान्तावयवत्वख्य सत्त्वात् ‘प्रातिपदिकान्त' इत्येव सिद्धे नुम्ग्रहणं व्यर्थे स्यादित्यर्थः । तदेवं प्रातिपदिकस्य उत्तरपदत्वविशेषणे नुम्ग्रहणं लिङ्गमिति स्थितम् । वस्तुतस्तु नेदं लिङ्गमित्याह । किञ्च, प्रहिण्वन्नित्यादौ हिवेर्नुमो णत्वार्थमपि नुम्ग्रहणमिति ॥ किच्चेति विशेषप्रदर्शने । 'हिवि प्रीणने' भ्वादिः, इदित्वात् नुम्, लटः शत्रादेशः । माषवापाणीत्यत्र नुमो नस्य प्रातिपदिकान्तत्वेऽपि प्रहिण्वन्शब्दे नुमो नस्य प्राति पदिकान्तत्वाभावात् 'प्रातिपदिकान्त' इत्यनेन णत्वविकल्पस्याप्राप्तस्तदर्थं नुम्ग्रहणमावश्यकम् । अतः उत्तरपदत्वस्य प्रातिपदिकविशेषणत्वे कथं नुम्ग्रहणं लिङ्ग स्यात् । तस्मादुत्तरपदविशेषणे भाष्यमेव शरणमिति भावः । ननु माषवापिणावित्यत्र वापिन् इति प्रातिपदिकस्य कथमुत्तरपद त्वम् । “गतिकारकोपपदानां कृद्रिस्सह समासवचनम्' इति सुबुत्पत्तेः प्रागेव समासप्रवृत्ते रिति चेन्न । उत्तरपदशब्दस्य समासचरमावयवे रूढत्वादित्यलम् । ननु “इवि प्राप्तौ' इदि त्वान्नुम् । ल्युटि अनादेशः । प्रकृष्टमिन्वनमिति प्रादिसमासे नुमो नकारस्य णत्वविकल्पः स्यादित्यत आह । प्रेन्वनमिति ॥ युवादेर्नेति । उक्तणत्वविकल्प इति शेषः । वार्तिक मिदम् । रम्ययूनेति ॥ रम्यश्चासौ युवा च तेनेति विग्रहः । प्रातिपदिकान्तनकारत्वात्प्राप्तिः । परिपक्वानीति ॥ इह नुमो नकारस्य “प्रातिपदिकान्त' इति विकल्पं बाधित्वा “कुमति च : इति नित्यं णत्वं प्राप्तम् । तदिह युवादित्वानिषिध्यते । एकाजुत्तरपदे णः ॥ अजन्त स्रीलिङ्गे पुनर्भूशब्दनिरूपणे व्याख्यातमपि प्रकरणानुरोधात् स्मर्यते । नित्यमित्युक्तमिति । आरम्भसामर्थ्यान्नित्यमिदं णत्वमिति तत्रैवोक्तमित्यर्थः । हरिमाणीति ॥ मनेर्ण्यन्तात् क्विप् च' इति क्विपि “गतिकारकोपपदानाम्’ इति सुबुत्पत्तेः प्राक् समासः । नान्तत्वात् डीप् । अत्र मान् इति प्रातिपदिकमुत्तरपदं तदन्तत्वात् नकारस्य णत्वविकल्पे प्राप्ते नित्यं णत्वम् । नुमीति ॥ उदाह्रियते इति शेषः । क्षीरपाणीति ॥ कर्मण्युपपदे पाधातोः 83