पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
६५८
[समासाश्रयविधि
सिद्धान्तकौमुदीसहिता

१०५६ । कुमति च । (८-४-१३)

कवर्गवत्युत्तरपदे प्राग्वत् । हरिकामिणौ । हरिकामाणि । हरिकामेण ।

१०५७ । पदव्यवायेऽपि । (८-४-३८)

पदेन व्यवधानेऽपि णत्वं न स्यात् । माषकुम्भवापेन । चतुरङ्गयोगेन ।

  • अतद्धित इति वाच्यम्' (वा ५०१५) । आर्दरेगोमयेण । शुष्कगोमयेण ।

  • आतोऽनुपसर्गे कः' इति कः , “आतो लोप इटि च' इत्याल्लोपः । क्षीरपशब्दाज्जश्शसोश्शिः ।

अजन्तलक्षणो नुम्, दीर्घः । तस्य नित्यं णत्वम् । विभक्ताविति । उदाह्रियते इति शेषः । क्षीरपेणेति ॥ विभक्तिस्थत्वान्नस्य नित्यं णत्वम् । विभक्तावुदाहरणान्तरमाह । रम्य विणेति ॥ विः पक्षी, रम्यश्चासौ विश्व तेनेति विग्रहः । नचात्र 'पदव्यवायेऽपि' इति निषेध श्शङ्कयः । किमिह प्रत्ययलक्षणेन अन्तर्वर्तिनीं विभक्तिमाश्रित्य “सुप्तिङन्तम्' इति पदत्वमभि मतम्, उत तृतीयाविभक्तौ परतः “स्वादिषु' इति पदत्वम् । नाद्यः । “उत्तरपदत्वे चापदादि विौ' इति प्रत्ययलक्षणप्रतिषेधात् । न द्वितीय । 'स्वादिषु' इत्यनेन हि रम्यविशब्दस्यैव पदत्वं लभ्यते, नतु विशब्दस्य । तृतीयाविभक्तस्समुदायादेव विधानात् । अत एव पुनर्भूणामित्यत्र नामि भूतशब्दमात्रस्य पदत्वाभावात् “पदव्यवायेऽपि' इति निषेधाभावाण्णत्वमिति प्राञ्चः । अत्र यद्वक्तव्यं तत् “पदव्यवायेऽपि' इत्यत्रानुपदमेव वक्ष्यते । कुमति च ॥ प्राग्वदिति ॥ प्राति पदिकान्तनुम्विभक्तिस्थस्य नस्य नित्यं णत्वं स्यादित्यर्थः । अनेकाजुत्तरपदार्थमिदम् । हरिकामि णाविति ॥ 'बहुळमाभीक्ष्ण्ये' इति णिनिः । प्रातिपदिकान्तत्वाण्णत्वम् । हरिकामाणीति ॥ अजन्तलक्षणनुमो नित्यं णत्वम् । हरिकामेणेति ॥ विभक्तिस्थस्योदाहरणम् । पदव्य वायेऽपि ॥ पदेन व्यवधाने इति ॥ पदेनेत्यनन्तरं निमित्तकार्णेोरिति शेषः । न स्या दिति ॥ ‘न भाभूपूकमिगमि' इत्यतस्तदनुवृत्तेरिति भावः । माषकुम्भवापेनेति ॥ माषाणाङ्कम्भो माषकुम्भः, तस्य वाप इति षष्ठीसमासः । अत्र निमित्तकार्यिणोष्षकारनकारयो कुम्भपदेन व्यवधानात् न णत्वम् । चतुरङ्गयोगेनेति ॥ चत्वारि अङ्गानि रथगजतुरगपदाति रूपाणि यस्य तत् चतुरङ्गं स्यैन्यम्, तेन योग इति वेग्रह । अत्र निमित्तकार्यिणोरङ्गपदेन व्यवधानान्न णत्वम् । उभयत्राऽऽपि कुम्भशब्दस्य अङ्गशब्दस्य च प्रत्ययलक्षणेन अन्त र्वर्तिनीं विभक्तिमाश्रित्य पदत्वम्बोध्द्यम् । ‘उत्तरपदे चापदादिविधौ प्रतिषेधः' इति निषेधस्तु नात्र प्रवर्तते । उत्तरखण्डस्य कार्यभाक्ते सत्येव तत्प्रवृत्तेः । अत एव “न लुमताङ्गस्य इत्यत्र परमवाचेत्येव तस्याः परिभाषाया उदाहरणमुक्तम्भाष्ये। अत्र हि वाक्छब्दस्य उत्तरपदस्य कुत्वकार्यभाक्तमस्तीति तस्य अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वाभावात् कुत्वं न भवति । अत एव च “कुमति च' इति सूत्रे भाष्ये माषाणाङ्कुम्भः माषकुम्भः माषकुम्भस्य वापो माषकुम्भवापः माषकुम्भवापेनेत्यत्र 'पदव्यवायेऽपि' इति निषेधप्रवृत्तये प्रातिपदिकान्त' इति णत्वप्रवृत्तिरुपन्यस्ता सङ्गच्छते । नचैवं सति रम्यविणा इत्यत्र