पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१५

पुटमेतत् सुपुष्टितम्
समासप्रकरणम्
५२९
बालमनोरमा

७७९ । प्राध्वं बन्धने । (१-४-७८)

'प्राध्वम्' इत्यव्ययम् । प्राध्वंकृत्य । बन्धनेनानुकूल्यं कृत्वेत्यर्थः । प्रार्थनादिना त्वानुकूल्यकरणे । प्राध्वं कृत्वा ।

७८० । जीविकोपनिषदावौपम्ये । (१-४-७९)

जीविकामिव कृत्वा—जीविकाकृत्य । उपनिषदमिव कृत्वा—उपनिषत्कृत्य । 'औपम्ये' किम् । जीविकां कृत्वा । प्रादिग्रहणमगत्यर्थम् । सुपुरुषः । अत्र वार्तिकानि । ‘प्रादयो गताद्यर्थे प्रथमया' (वा १३३५) । प्र गत आचार्यः प्राचार्यः । 'अत्यादयः क्रान्ताद्यर्थे द्वितीयया' (वा १३३६) । अतिक्रान्तो


अन्यदीयमिति बुध्द्या दातुं परावृत्त इत्यर्थः । प्राध्वं बन्धने ॥ प्राध्वमिति न द्वितीयान्तमित्याह । प्राध्वमित्यव्ययमिति ॥ बन्धने गम्ये प्राध्वमित्यव्ययं गतिसंज्ञकं स्यादित्यर्थः । प्राध्वंकृत्येति ॥ गतिसमासे त्को ल्यप् । अत्र प्राध्वमिति मान्तमव्ययं बन्धनेन आनुकूल्य वर्तते । तदाह । बन्धनेनेति ॥ बन्धनग्रहणस्य प्रयोजनमाह । प्रार्थनादिनेति ॥ जीविकोपनिष ॥ उपमैव औपम्यं, तस्मिन्विषये जीविकाशब्दः उपनिषच्छब्दश्च कृञा योगे गतिसंज्ञौ स्तः । जीविकामिवेति ॥ अशनपानादिजीवनोपायो जीविका । तामिव अवश्यं कृत्वेत्यर्थः । जीविकाकृत्येति ॥ गतिसमासे त्को ल्यप् । उपनिषदमिव कृत्वेति ॥ उपनिषत् वेदान्तभागः, तामिव रहसि ग्राह्यत्वेन कृत्वेत्यर्थः । उपनिषत्कृत्येति ॥ गतिसमासे त्को ल्यप् । उभयत्रापि सुब्लुक् । तदेवं ‘कुगतिप्रादयः’ इत्यत्रत्यगतिसमासाः प्रपश्चिताः । ननु गतिग्रहणेनैव सिद्धे प्रादिग्रहणं व्यर्थमित्यत आह । प्रादिग्रहणमगत्यर्थमिति ॥ सुपुरुष इति ॥ अत्र क्रियायोगाभावादगतित्वेऽपि समासः । सोः प्रज्ञार्थकत्वेऽपि धातुवाच्यक्रियायोगाभावान्न गतित्वम् । भाष्ये तु 'कुगतिप्रादयः’ इति सूत्रमपनीय तत्स्थाने 'क्वाङ्स्वतिदुर्गतयस्समस्यन्त इति वक्तव्यम्' इत्युक्त्वा “कुब्राह्मणः, आकडारः, सुब्राह्मणः अतिब्राह्मणः, दुर्ब्राह्मणः, दूरीकृत्य” इत्युदाहृतम् । “स्वती पूजायाम्, दुर्निन्दायाम्, आङीषदर्थे, कुः पापार्थे, इति सौनागव्याकरणवचनम्” इति भाष्ये स्पष्टम् । अत्र वार्तिकानीति ॥ प्रादयः गताद्यर्थे समस्यन्ते इति वक्तव्यम्’ इति वार्तिकं पठित्वा तत्र व्यवस्थापकानि पञ्च वार्तिकानि सौनागव्याकरणसिद्धानि भाष्ये यानि पठितानि तानि प्रदशर्यन्त इत्यर्थः । प्रादय इति ॥ गताद्यर्थे विद्यमानाः प्रादयस्समस्यन्त इत्यर्थः । प्र गत आचार्य इति ॥ प्रेत्यस्य विवरणं गत इति, गत आचार्य इत्येव अस्वपदविग्रहः । नित्यसमासत्वात् । अभिगतो मुखं अभिमुखः, प्रतिगतोऽक्षं प्रत्यक्ष इत्यादि । अत्यादय इति ॥ क्रान्ताद्यर्थे अत्यादयस्समस्यन्त इत्यर्थः । अतिक्रान्तो मालामिति ॥ अतिशब्दः क्रान्ते वर्तते । क्रान्तो मालामित्यस्वपदविग्रहः । तत्र क्रमुधातोरतिक्रमणमर्थः । अतिमाल इति ॥ 'एकविभक्ति च' इति