पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१६

पुटमेतत् सुपुष्टितम्
५३०
[उपपद्
सिद्धान्तकौमुदीसहिता

मालामतिमालः । अवादयः कुष्टाद्यर्थे तृतीयया' (वा १३३७) । अवकुष्टः कोकिलया अवकोकिल । 'पर्यादयो ग्लानाद्यर्थे चतुर्थ्या' (वा १३३८) । परिग्लानोऽध्ययनाय पर्यध्ययनः ।'निरादयः क्रान्ताद्यर्थे पञ्चम्या' (वा १३३९) निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः । “ कर्मप्रवचनीयानां प्रतिषेधः (वा १३३९) । वृक्षं प्रति ।

७८१ । तत्रोपपदं सप्तमीस्थम् । (३-१-९२)

सप्तम्यन्ते पदे 'कर्मणि-' (सू २९१३) इत्यादौ वाच्यत्वेन स्थितं कुम्भादि तद्वाचक पदमुपपदसंज्ञं स्यात्, तस्मिश्च सत्येव वक्ष्यमाणः प्रत्ययः स्यात् ।


मालाशब्दस्य उपसर्जनत्वात् “गोस्त्रियोः’ इति ह्रस्वः। अवादय इति ॥ क्रुष्टाद्यर्थे अवादयस्समस्यन्त इत्यर्थः । अवकोकिल इति ॥ कोकिलया आहूत इत्यर्थः । पर्याद्य इति ॥ ग्लानाद्यर्थे पर्यादयस्समस्यन्त इत्यर्थः । अध्ययनाय अध्ययनार्थे तेन श्रान्त इत्यर्थः । परित्र ग्लाने वर्तते । निरादय इति ॥ क्रान्ताद्यर्थे निरादयस्समस्यन्त इत्यर्थः । निष्कौशाम्बिरिति ॥ अतिमालवत् ह्रस्वः । निरित्यव्ययं निर्गमने वर्तते । कर्मप्रवचनीयानां प्रतिषेध इति ॥ वार्तिकमेतत् । वृक्षं प्रतीति ॥ ‘लक्षणेत्थम्’ इति कर्मप्रवचनीयत्वान्न प्रादिसमासः । इदन्तु वार्तिकं भाष्ये प्रत्याख्यातम् । अथोपपदसमासं वक्ष्यन्नुपपदसंज्ञामाह । तत्रोपपदं सप्तमीस्थम् ॥ अधिकारोऽयम् । सप्तमीति तदन्तग्रहणम् । सप्तम्यन्ते पदे वाच्यवाचकभावसम्बन्धेन तिष्ठतीति सप्तमीस्थम् । सप्तम्यन्तवाच्यमिति यावत् । धातोरित्यधिकारसूत्रादुत्तरसूत्रमिदम् । ततश्च तदधिकारान्तर्गतेषु 'कर्मण्यण्' इत्यादिसूत्रेषु यत्सप्तम्यन्तमुच्चारितन्तदेव इह विवक्षितम् । एवञ्च तदुदाहरणे कुम्भं करोति कुम्भकार इत्यत्र सप्तम्यन्तवाच्यं कुम्भादीति पर्यवसन्नं, कुम्भादेश्च उपपदसज्ञायां प्रयोजनाभावात्तद्वाचकपदेषु विश्राम्यति । तथाच धातोरित्यधिकारान्तर्गते कर्मणीत्यादिसूत्रे यत्सप्तम्यन्तं कर्मणीत्यादि तद्वाच्यं यत् कुम्भादि तद्वाचकं पदम् उपपदसंझं स्यादित्यधिकृतं वेदितव्यमित्यर्थः फलति । तदाह । सप्तभ्यन्ते पद इत्यादिना ॥ तत्र “धातोः कर्मणस्समानकर्तृ कात्' इति धातोः “एकाचो हलादेः' इति धातोः' इति च क्रमेण त्रयो धात्वधिकाराः । तत्र प्रत्यासत्या तृतीयधात्वधिकारस्थसप्तम्यन्तस्यैव ग्रहणात् “धातोरेकावः' इत्यधिकारे “च्लि लुङि ' इत्यत्र सप्तम्यन्तन्न गृह्यते । अन्यथा कर्मणीत्यादाविव लुङन्ते अभूदित्यादावुपपदे धातोश्च्लिरित्यर्थस्यात् । ननु तत्रेति व्यर्थम् । तृतीयधात्वधिकारस्य प्रकृतत्वादेव ग्रहणसम्भवादित्याशङ्क्या आह । तस्मिश्च सत्येव वक्ष्यमाणः प्रत्ययः स्यादिति ॥ तत्रेत्यस्य अर्थः फलति । तथाच 'कर्मण्यण् ' इत्यत्र इद सूत्रमुपस्थितम् । कर्मणीति सप्तम्यन्तं प्रथमान्तत्वेन विपरिणम्यते । सप्तमीनिर्देशस्तु उपपदसंज्ञाप्रवृत्यर्थः । धातोरण्स्यात् कर्तर्यर्थे, कर्मवाचकन्तु कुम्भादिपदम् उपपदसंज्ञं प्रत्येतव्यम्, तस्मिन्नुपपदे सत्येव अण्स्यादिति फलति ।