पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१७

पुटमेतत् सुपुष्टितम्
समासप्रकरणम् ]
५३१
बालमनोरमा


७८२ । उपपदमतिङ् । (२-२-१९)

उपपदं सुबन्तं समर्थेन नित्यं समस्यते । अतिङन्तश्चायं समासः । कुम्भं करोतीति कुम्भकारः । इह 'कुम्भ अस् कार' इत्यलौकिकं प्रक्रियावाक्यम् । 'अतिङ्' किम् । मा भवान्भूत् । 'माङि लुङ्' (सू २२१९) इति सप्तमीनिर्देशान्माङुपपदम् । 'अतिङ्’ ग्रहणं ज्ञापयति । ' सुपा' इत्येतन्नेहानुवर्तत इति । पूर्वसूत्रेऽपि गतिग्रहणं पृथक्कृत्यातिङ्ग्रहणं तत्रापकृष्यते ।


तस्मिन् सत्येबाण् स्यादित्यभावे तु कार इत्येवं केवलादपि धातोः कर्तर्येर्थे अण्प्रत्ययस्यात् । कर्मणीति सप्तम्यन्तनिर्देशस्तु कुम्भकार इत्यादौ उपपदसंज्ञां प्रापय्य “उपपदमतिङ्’ इति नित्यसमाससम्पादनेन कुम्भ इत्यस्य कार इत्यस्य च साधुत्वप्रापणार्थतया चरितार्थः । तस्मिन्नुपपदे सत्येवाण् स्यादित्युक्ते तु कुम्भाद्युपपदस्य अण्प्रत्ययोत्पत्तौ निमित्तत्वावगमान्न केवलादण्प्रत्ययः । उपपदसज्ञायाः प्रत्ययविधिसन्नियोगशिष्टत्वलाभात् धः कर्मणि ष्ट्रन , भुवो भावे' इत्यादौ सप्तम्यन्तमर्थनिर्देशपरमेव व्याख्यानादिति भाष्यकैयटादिषु स्पष्टम् । उपपदमतिङ् ॥ सुबन्तमिति ॥ 'सुबामन्त्रित' इत्यतस्तदनुवृत्तेरिति भावः । समर्थेनेति ॥ प्रथमान्तं समर्थग्रहणं तृतीयान्ततया विपरिणम्यत इति भावः । अतिङन्तश्चायं समास इति ॥ सूत्रे तिङितिं तदन्तग्रहणमिति भावः । समासः तिङन्तघटितो न भवतीत्यर्थः । अतिङ् किम् । कारको व्रजति । 'तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्' इति व्रजतावुपपदे कृञो ण्वुल्, अकादेशः । उपपदं समर्थेनेत्येतावत्युक्ते इहाप्युपपदसमासस्स्यात् । अतः अतिङ्ग्रहणम् नचैवं सुबित्यनुवृत्तेः प्रयोजनाभाव इति वाच्यम् । चर्मकार इत्यत्र नलोपार्थकत्वात् । उपपदमतिङन्तं समर्थेन समस्यत इति व्याख्याने तु सुबिति नानुवर्तेत । ततश्च चर्मकार इत्यत्र नलोपो न स्यादिति भावः । कुम्भमिति ॥ कुम्भं करोतीत्यर्थे 'कर्मण्यण्’ इति कर्मीभूतकुम्भवाचकपदे उपपदे कृञ्धातोः कर्तरि अण्प्रत्यये 'अचोञ्णिति' इति वृद्धौ रपरत्वे कारशब्दः । तेन कुम्भशब्दस्य समासे कुम्भकारशब्द इत्यर्थः । ननु कुम्भं करोतीति कथं विग्रहप्रदर्शनम्, अतिङन्तस्समास इत्युक्तत्वादित्यत आह । कुम्भ अस्, कार इत्यलौकिकं विग्रहवाक्यमिति ॥ लोके प्रयोगानर्हत्वमलौकिकत्वम् । ‘प्रत्ययोत्तरपदयोश्च' इति सूत्रभाष्यरीत्या अलौकिकविग्रहवाक्य एव समासप्रवृत्तिः । कुम्भं करोतीति कृञर्थप्रदर्शनमात्रमिति भावः । कुम्भ अम् कार इत्यपपाठः । कृद्योगे षष्ठीविधानात् । मा भवान् भूदिति ॥ अत्र भूदिति तिङन्तेन माङ्स्समासनिवृत्त्यर्थमतिङ्ग्रहणमिति भावः । भवानिति पदन्तु समासाभावसूचनाय मध्ये प्रयुक्तम् । ननु माङ्ः तृतीयधात्वधिकारे सप्तमीनिर्दिष्टत्वन्तु अदृष्टं, येन तस्य उपपदत्वात् समासः प्रसज्यत इत्यत आह । माङिति ॥ ननु अतिङ्ग्रहण व्यर्थं मा भवान् भूदित्यत्र सुपेत्यनुवृत्यैव समासनिवृत्तिसम्भवादित्यत आह । अतिङ्ग्रहणमिति ॥ एवञ्च उपपदम् असुबन्तेन समस्यत इति फलितम् । गतिसमासोऽप्यसुबन्तेनेत्याह । पूर्वसूत्र इति ॥ उत्तरसूत्रात्पूर्वसूत्रे अनुवृत्तिरपकर्षः । 'कुप्रादयः' इति ‘गतिः’ इति च योगो