पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१८

पुटमेतत् सुपुष्टितम्
५३२
[उपपद्
सिद्धान्तकौमुदीसहिता


'सुपा' इति च निवृत्तम् । तथा च ’गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः' (प ७६) इति सिद्धम् । व्याघ्री । अश्वक्रीती । कच्छपी ।

७८३ । अमैवाव्ययेन । (२-२-२० )

अमैव तुल्यविधानं यदुपपदं तदेवाव्ययेन सह समस्यते । स्वादुङ्कारम् । नेह । 'कालसमयवेलासु तुमुन्' (सू ३१७९) । कालः समयो वेला वा


विभज्यते । कुप्रादयस्सुबन्तेन समस्यन्ते । गतिस्तु न समस्यते । अतिङन्तश्च समास इति व्याख्येयमिति यावत् । ततः किमित्यत आह । तथा चेति ॥ गतिकारकोपपदानां कृदन्तै स्सह सुबुत्पत्तेः प्राक् समासो वक्तव्य इति प्राचीनव्याकरणोक्त्तं सिद्धं भवतीत्यर्थः । यद्यप्युक्तरीत्या गत्युपपदयोरेव लाभः । तथापि एकदेशानुमतिद्वारा प्राचीनपरिभाषेयं सिध्द्यति । अथ परिभाषायाः फलं दर्शयितुं गतिसमासमुदाहरति । व्याघ्रीति ॥ व्याजिघ्रतीति-व्याघ्रः । व्याङ्पूर्वात् घ्राधातोः “ आतश्चोपसर्गे' इति कः, “ आतो लोप इटि च' इत्याल्लोपः । 'पाघ्राध्माधेट् दृशश्शः’ इति तु न भवति । 'जिघ्रतेस्संज्ञायान्नेति वाच्यम्' इति निषेधात् । आङो घ्रशब्देन गतिसमासः । आघ्रशब्देन वे: गतिसमासः । तत्र यदि घ्रशब्स्य सुबन्तत्वमपेक्ष्येत, तर्हि स्त्रीप्रत्यये उत्पन्ने सुबुत्पत्तिस्यात् । स्वार्थद्रव्यलिङ्गसङ्खयाकारकप्रयुक्तकार्याणां क्रमिकत्वस्य 'कुत्सिते' इतिसूत्रस्थभाष्यदर्शितस्य “ङ्याप्प्रातिपदिकात्' इत्यत्र अस्माभिः प्रपञ्चितत्वात् । ततश्च सुबुत्पत्तये लिङ्गसङ्खयाकारकं क्रमेण अपेक्ष्यमिति प्रथमं लिङ्गसंयोगे सति अदन्तत्वात् टाप् स्यात् । नतु जातिलक्षणङीष, घ्रशब्दमात्रस्य जातिवाचित्वाभावात् । ततश्च घ्राशब्देन सुबन्तेन समासे सति व्याघ्राशब्दस्य अदन्तत्वाभावात् जातिलक्षणो ङीष् न स्यादिति भावः । यद्यप्युपपदत्वेनाप्येतत्सिद्धम्, तथापि गतित्वसम्भवमात्रेण इदमित्याहुः । वस्तुतस्तु आङो घ्राशब्देन उपपदसमासः । 'आतश्चोपसर्गे' इति सप्तमीनिर्देशात् । वेस्तु आघ्रशब्देन गतिसमास इति तदंशे गतिसमासोदाहरणमित्याहुः । अथ कारकसमासमुदाहरति । अश्वक्रीतीति ॥ अश्वेन क्रीतेति विग्रहे 'कर्तृकरणे कृता’ इति समासः । ‘क्रीतात्करणपूर्वात्' इति ङीष् । सुबन्तेन समासे तु उक्तरीत्या पूर्वे टापि अदन्तत्वाभावात् ङीष् न स्यादिति भावः । उपपदसमासमुदाहरति । कच्छपीति ॥ कच्छः तीरं, तेन तस्मिन् वा पिबतीति कच्छपी “सुपि स्थः' इत्यत्र ‘सुपि’ इति योगविभागात्कः, उपपदसमासः । तस्य सुबन्तापेक्षायाम् उत्क्तरीत्या टाबेव स्यात्, नतु जातिलक्षणङीषिति भावः । अमैवाव्ययेन ॥ अमैवेत्यनन्तरन्तुल्यविधानमित्यध्याहार्यम् । 'तुल्यार्थैरतुलोपमाभ्याम्' इति तृतीया । अमैव तुल्यति ॥ अम्प्रत्ययमात्रविधायकशास्त्रेण अमैव सह यस्य उपपदसंज्ञा विधीयते तदुपपदमव्ययेन समस्यत इति यावत् । पूर्वसूत्रेणैव सिद्धे नियमार्थमिदमित्याह । तदेवेति ॥ विवरणवाक्ये द्वितीय एवकारो नियमलभ्यः, नतु सूत्रस्थः । तस्य, अप्राप्ते अमा तुल्यविधानत्वे अवधारणार्थत्वात् । स्वादुङ्कारमिति ॥ स्वादुं कृत्वेत्यर्थः । ओदनं भुङ्क्त इति शेषः । ‘स्वादुमि णमुल्' इति णमुल् । स्वादुशब्दस्य मान्तत्वम्, निपातनात् । “कृन्मेजन्तः' इत्यव्ययत्वम् ।