पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१९

पुटमेतत् सुपुष्टितम्
समासप्रकरणम् ]
५३३
बालमनोरमा

भोक्तुम् । “ अमैव' इति किम् । अग्रे भोजम्-अग्रे भुक्त्वा । 'विभाषागेप्रथमपूर्वेषु' (सू ३३४५) इति क्त्वाणमुलौ । । अमा चान्येन तुल्यविधानमेतत्

७८४ । तृतीयाप्रभृतीन्यन्यतरस्याम् । (२-२-२१)

उपदंशस्तृतीयायाम्' (सू ३३६८) इत्यादीन्युपपदान्यमन्तेनाव्ययेन सह वा समस्यन्ते । मूलकेनोपदंशं भुङ्क्ते -मूलकोपदंशम् । उचै:कारम् ।

७८५ । क्त्वा च । (२-२-२२)

तृतीयाप्रभृतीन्युपपदानि क्त्वान्तेन सह वा समस्यन्ते । उच्चैःकृत्य-उच्चैः कृत्वा । “ अव्ययेऽयथाभिप्रेत -' (सू ३३८१) इति क्त्वा । “तृतीयाप्रभृतीनि ' इति किम् । अलं कृत्वा । खलु कृत्वा ।


तदेवेति नियमस्य प्रयोजनमाह । नेहेति ॥ उपपदसमास इति शेषः । भोक्तुमिति ॥ यद्यपि “कालसमयवेलासु' इति सप्तमीनिर्देशात् कालसमयवेलानामुपपदत्वम् । तथापि कालादीनामुपपदसंज्ञा तुमुना तुल्यविधानैव, नत्वमा । अतः कालादीनामुपपदत्वेऽपि न समास इत्यर्थः । अमैवेति किमिति ॥ अमैवेत्येवकारः किमर्थ इति प्रश्रः । अमा चान्येन चेति ॥ अम्प्रत्ययेन त्त्काप्रत्ययेन च सह उपपदसंज्ञा अग्रेप्रथमपूर्वशब्दानां विहिता । ततश्च उपपदत्वस्य अमैव तुल्यविधानाभावात् न उपपदसमास इति भावः । तृतीयाप्रभृतीन्यन्यतरस्याम् ॥ तृतीयाशब्देन ‘उपदंशस्तृतीयायाम्' इत्यारभ्य “अन्वच्यानुलोम्ये' इत्यन्तसूत्रोपात्तान्युपपदानि विवक्षितानि । अमेति, अव्ययेनेति च अनुवर्तते, एवकारस्तु नानुवर्तते, अस्वरितत्वात् । अमेत्येतदव्यविशेषणम् । तदाह । उपदंशस्तृतीयायामित्यादिना ॥ मूलकेन उपदंशं भुङ्क्ते मूलकोपदंशमिति ॥ 'उपदंशस्तृतीयायाम्' इति णमुल् । अमैव तुल्यविधानत्वात् । पूर्वसूत्रेण नित्ये प्राप्ते विकल्पोऽयम् । ननु मूलकेनेत्यस्य भुङ्क्त इत्यत्रैवान्वयात् उपदंश इत्यत्रानन्वयादसामर्थ्यात् कथमिह समास इति चेन्मैवम् । उपदंशनक्रियां प्रति हि मूलकस्य आर्थिकं कर्मत्वमादाय सामर्थ्यमुपपाद्यम् । तृतीया तु प्रधानक्रियानुरोधात् परत्वाच्च उपपाद्येत्यन्यत्र विस्तरः । उच्चैः कारमिति ॥ उचैः कृत्वेत्यत्र तु 'अव्ययेऽयथाभिप्रेताख्याने कृञः त्का णमुलौ' तत्र उच्चैः कारमित्यत्र उपपदत्वस्य अमैव तुल्यविधानत्वाभावात् ‘अमैवाव्ययेन' इत्यप्राप्ते अनेन विकल्पः । समासपक्षे “ अ आदिर्णमुलन्यतरस्याम्' इति कृदुत्तरपदप्रकृतिस्वरः आद्युदात्तत्वम् । असमासपक्षे तु उच्चैरिति फिट्सूत्रेण अन्तोदात्तत्वमिति फले भेदः । अमन्तेनेति किम् । पर्याप्तो भोक्तुम् । 'पर्याप्तिवचनेषु' इति तुमुन् । क्त्वा च ॥ तृतीयाप्रभृतीनीति पूर्वसूत्र मनुवर्तते । त्त्कति तृतीयार्थे प्रथमा । टायां ‘सुपां सुलुक् पूर्वसवर्ण' इति पूर्वसवर्णदीर्घ इत्यपरे । तदाह । तृतीयेति ॥ ननु ‘उपदंशस्तृतीयायाम्' इत्यतः प्रागेव समानकर्तृकयोरिति त्त्काविधेः पाठात् कथमुच्चैः कृत्वेत्युदाहरणमित्यत आह । अव्ययेऽयथेति ॥ ‘अव्ययेऽयथाभिप्रेताख्याने-