पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/२

पुटमेतत् सुपुष्टितम्
५१६
[तत्पुरुष
सिद्धान्तकौमुदीसहिता

७४१ । बृन्दारकनागकुञ्जरैः पूज्यमानम् । (२-१-६२)

गोबृन्दारकः । ' व्याघ्रादेः’ आकृतिगणत्वादेव सिद्धे सामान्यप्रयोगार्थं वचनम् ।

७४२ । कतरकतमौ जातिपरिप्रश्ने । (२-१-६३)

कतरकठ: । कतमकलापः । ' गोत्रं च चरणैः सह' इति जातित्वम् ।

७४३ । किं क्षेपे । (२-१-६४)

कुत्सितो राजा किंराजा, यो न रक्षति ।


गुणक्रियाशब्दैस्समासे सदादीनां पूर्वनिपातनियमार्थमिदं सूत्रम् । बृन्दारकनागकुञ्जरै: ॥ समानाधिकरणैस्समस्यते इति शेषः । विशेषणसमासेनैव सिद्धे विशेष्यस्य पूर्वनिपातनियमार्थं सूत्रम् । गोबृन्दारक इति ॥ वृन्दारकशब्दो देवतावाची " अमरा निर्जरा देवा‌ " इत्युपक्रम्य, " बृन्दारका दैवतानि " इत्यमर: । गौः वृन्दारक इवेति विग्रह: । गौ: नाग इव गोनागः । गौः कुञ्जर इव गोकुञ्जरः । नागशब्दः कुञ्जरशब्दश्च गजवाची । अत्र गोर्वृन्दारकादितुल्यत्वात् श्रैष्ठयं गम्यते इति पूज्यमानता । ननु व्याघ्रादेराकृतिगणत्वात् 'उपमितं व्याघ्रादिभिः' इत्येव सिद्धे किमर्थमिदमित्यत आह । व्याघ्रादेरिति ॥ सामान्येति ॥ गोकुञ्जरः श्रेष्ठ इत्यादाविति भाव: । कतरकतमौ ॥जातिपरिप्रश्ने गम्ये कतरकतमौ समानाधिकरणेन समस्येते इत्यर्थः । कतरकठ इति ॥ अनयोः कः कठः इत्यर्थः । 'किंयत्तदोर्निर्धारणे द्वयोरेकस्य डतरच्’ कठेन प्रोक्तमधीते कठः । वैशम्पायनान्तेवासित्वात् प्रोक्ते णिनिः इति तस्य लुक् । ततस्तदधीते इत्यणः 'प्रोक्ताल्लुक्' इति लुक् । कतमवकलाप इति ॥ एषां कः कलाप इति विग्रहः । कलापिना प्रोक्तमधीते कलापः । 'कलापिनोऽण् ' 'सब्रह्मचारि ' इति टिलोपः । 'वा बहूनाञ्जातिपरिप्रश्ने डतमच्’ ननु घटत्वादिवत् कठशाखाध्द्येतृत्वात्मकत्वं न जातिः । “ आकृतिग्रहणा जातिः” इति लक्षणस्य “लिङ्गानाञ्च न सर्वभाक्, सकृदाख्याननिग्रह्या" इति लक्षणस्य च तत्राप्रवृत्तेरित्यत आह । गोत्रञ्चेति ॥ अत्र कतमशब्दस्य जातिपरिप्रश्न एव व्युत्पादनात्कतरार्थमेव जातिपरिप्रश्नग्रहणम् । एवञ्च अनयोः कतरो देवदत्तः इत्यत्र न भवति समासः । एषां कतमो देवदत्त इति तु नास्त्येव । जातिपरिप्रश्न एव डतमचो विधानात् । वस्तुतस्तु “डतरडतमविधौ द्वयोरिति बहूनामिति जाति परिप्रश्न' इति प्रत्याख्यातं भाष्ये । एवञ्च कतम एषान्देवदत्त इत्यप्यस्ति । “तत्र समासाभावाय जातिपरिप्रश्नग्रहणम्” इति शब्देन्दुशेखरे स्थितम् । किं क्षेपे ॥ क्षेपो निन्दा । तत्र गम्ये किमित्यव्ययं समानाधिकरणेन समस्यते स तत्पुरुषः इत्यर्थः । कुत्सितो तो राजेति ॥ अस्वपदविग्रहोऽयम् । किम्पदस्थाने कुत्सितपदमिति ज्ञेयम् । वाक्येन निन्दानवगमेन स्वपदलौकिकविग्रहासम्भवात् । किंराजेति ॥ 'राजाहस्सखिभ्यः' इति टच् तु न । ' क्रिमः क्षपे' इति निषेधात् । ननु राज्ञो बहुसम्पत्तिशालिनः कथं कुत्सितत्वमित्यत आह । यो न रक्षतीति ॥