पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/५

पुटमेतत् सुपुष्टितम्
समासप्रकरणम् ]
५१९
बालमनोरमा

वेहद्भर्भघातिनी । गोवेहत् । बष्कयण्यतरुणवत्सा । गोबष्कयणी । कठप्रवक्ता । कठश्रोत्रियः । कठाध्यापकः । कठधूर्तः ।

७४७ । प्रशंसावचनैश्च । (२-१-६६)

एतैः सह जातिः प्राग्वत् । गोमतल्लिका । गोमचर्चिका । गोप्रकाण्डम्। गोवोद्धः । गोतल्लजः । प्रशस्ता गौरित्यर्थः । मतल्लिकादयो नियतलिङ्गा न तु विशेष्यनिघ्नाः । । जातिः किम् । कुमारी मतल्लिका ।

७४८ । युवा खलतिपलितवलिनजरतीभिः । (२-१-६७)

पूर्वनिपातनियमार्थं सूत्रम् । लिङ्गविशिष्टपरिभाषया युवतिशब्दोऽपि


नीति ॥ कोशवाक्यमिदम् । गोवेहदिति ॥ वेहञ्चासौ गौश्चेति विग्रहः । बष्कयण्यतरुणवत्सेति ॥ “चिरसूता बघ्कयणी' इत्यमरः । तरुणवत्सेत्यपपाठः । गोबष्कयणीति ॥ बष्कयणी चासौ गौश्चेति विग्रहः । कठप्रवक्तेति ॥ प्रवक्ता अध्द्यापकः स चासौ कठश्चेति विग्रहः । कठाध्द्यापक इति ॥ अध्द्यापकश्चासौ कठश्चेति विग्रहः । कठधूर्त इति ॥ धूर्तश्चासौ कठश्चेति विग्रहः । “धूतोंऽक्षदेवी' इत्यमरः । विट इत्यन्ये । नच 'कुत्सितानि कुत्सनैः’ इत्यनेन सिद्धिश्शङ्क्या । प्रवृत्तिनिमित्तकुत्सायामेव तत्प्रवृत्तेः । नहि कुत्सितम् । प्रशंसावचनैश्च ॥ एतैरिति ॥ रूढ्या प्रशंसावाचकैरित्यर्थः । जातिरिति ॥ ‘पोटायुवति' इत्यतस्तदनुवृत्तेरिति भावः । प्राग्वदिति ॥ समानाधिकरणैस्समस्यते स तत्पुरुष इत्यर्थः । जातेः पूर्वनिपातनियमार्थं सूत्रम् । गोमतल्लिकेति ॥ मतल्लिका चासौ गौश्चेति विग्रहः । गोमचर्चिकेति ॥ मचर्चिका चासौ गौश्चेति विग्रहः । गोप्रकाण्डमिति ॥ प्रकाण्डश्चासौ गौश्चेतेि विग्रहः । गवोद्ध इति । उद्धश्चासौ गौश्चेति विग्रहः। ‘अवङ् स्फोटायनख्य' 'आद्गुणः' । गोतल्लज इति ॥ तल्लजश्चासौ गौश्चेति विग्रह । सर्वत्र परवल्लिङ्गता । मतल्लिकादिशब्दानां अप्रसिद्धत्वाह्याचष्टे । प्रशस्ता गौरित्यर्थ इति ॥ गोशब्दस्य स्त्रीलिङ्गत्वाभिप्रायात् प्रशस्तेति स्त्रीलिङ्गनिर्देशः । गोशब्दस्य पुलिङ्गत्वे तु प्रशस्त इति पाठ्यम्। ननु गोशब्दस्य पुलिङ्गत्वे मतल्लिकामचर्चिकाप्रकाण्डशब्दानामपि विशेष्यनिघ्नत्वात् पुल्लिङ्गतापत्तिः । गोशब्दस्य स्त्रीलिङ्गत्वे तु प्रकाण्डोद्धतल्लजानामपि स्त्रीलिङ्गतापत्तिश्चेत्यत आह । मतल्लिकादय इति ॥ 'मतल्लिका मचर्चिका प्रकाण्मुद्धतल्लजौ । प्रशस्तवाचकान्यमूनि' इत्यमरः । कुमारी मतल्लिकेति ॥ अवस्थाविशेषात्मकवयोविशेषवाचित्वान्न जातिवाची कुमारीशब्द इति न समासः । समासे तु 'पुंवत्कर्मधारय' इति पुंवत्त्वं स्यादिति भावः । युवाखलति ॥ युवन्शब्दः खलत्यादिभिस्समानाधिकरणैस्समस्यते स तत्पुरुष इत्यर्थः । विशेषणसमासेन सिद्धे किमर्थमिदमित्यत आह । पूर्वेति ॥ युवन्शब्दस्य खलत्यादिश ब्दानाञ्च गुणवाचित्वाद्विशेषणत्वे कामचारात्पूर्वनिपातस्यानियमे प्राप्ते तन्नियमार्थमिदं सूत्रमित्यर्थः । खलतिऽकेशाहीनशिराः ।