पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/७

पुटमेतत् सुपुष्टितम्
समासप्रकरणम् ]
५२१
बालमनोरमा

७५२ । कुमार श्रमणादिभिः । (२-१-७०)

कुमारी श्रमणा कुमारश्रमणा । इह गणे श्रमणा प्रव्रजिता गर्भिणीत्यादयः स्त्रीलिङ्गाः पठ्यन्ते । लिङ्गविशिष्टपरिभाषाया एतदेव ज्ञापकं बोध्यम्।

७५३ । चतुष्पादो गर्भिण्या । (२-१-७१)

चतुष्पाज्जातिवाचिनो गर्भिणीशब्देन सह प्राग्वत् । गोगर्भिणी । 'चतुष्पाज्जातिरिति वक्तव्यम्’ (वा १३११) । नेह । स्वस्तिमती गर्भिणी ।

७५४ । मयूरव्यंसकादयश्च । (२-१-७२)

एते निपात्यन्ते । मयूरा व्यंसकः मयूरव्यंसकः । व्यंसको धूर्तः । उदक्चावाक्चोच्चावचम् । निश्चितं च प्रचितं च निश्चप्रचम् । नास्ति किञ्चन यस्य सोऽकिञ्चनः । नास्ति कुतो भयं यस्य सोऽकुतोभयः । अन्यो राजा राजा-


निरेिति ॥ कडारश्चासौ जैमिनिश्चेति विग्रहः । कुमार श्रमणादिभिः ॥ कुमारशब्दः श्रमणादिभिस्समानाधिकरणैस्समस्यते स तत्पुरुषः इत्यर्थः । कुमारी श्रमणा कुमारश्रमणेति ॥ 'पुंवत्कर्मधारय' इति पुंवत्वम् । श्रमणाः परित्यक्तसर्वसङ्गाः । ननु सूत्रे कुमारशब्दस्य पुलिङ्गस्यैव पाठात् कथमिह स्त्रीलिङ्गस्योदाहरणमित्यत आह । इहेति ॥ ननु गणे स्त्रीलिङ्गानामेव पाठे सूत्रस्य कथन्तेषु प्रवृत्तिः । नच लिङ्गविशिष्टपरिभाषयेति वाच्यम् । तत्सद्भावे प्रमाणाभावादित्यत आह । लिङ्गेति ॥ एतदेवेति । एतदपीत्यर्थः । 'युवाखलति' इति सूत्रे जरतीग्रहणस्यापि तद्ज्ञापकत्वात् । नहि युवन्शब्दस्य जरतीसामानाधिकरण्यमस्ति । चतुष्पादो गर्भिण्या ॥ 'जातिग्रहणं कर्तव्यम्’ इति वार्तिकमभिप्रेत्य आह । चतुष्पाज्जातीति ॥ गोगभिणीति ॥ गर्भिणी चासौ गौश्चेति विग्रहः । विशेष्यस्य पूर्वनिपातार्थमिदं सूत्रम् । जातिरिति किम् । कालाक्षी गर्भिणी । मयूरव्यंसकादयश्च । एते निपात्यन्ते इति ॥ कृतसमासकार्या निर्दिश्यन्त इत्यर्थः । मयूरव्यंसक इति ॥ व्यंसकश्चाशौ मयूरश्चेति विग्रहः । व्यंसको धूर्त इति ॥ अत्र कोशो मृग्यः । गुणवचनत्वात् व्यंसकशब्दस्य पूर्वनिपाते प्राप्ते इदं वचनम् । उच्चावचमिति ॥ उदक्शब्दस्य उच्चेत्यादेशः । अवाक्शब्दस्य अवचादेशश्च “उच्चावचनैकभेदम्' इत्यमरः । निश्चप्रचमिति ॥ निश्चितशब्दस्य निश्चादेशः । प्रचितशब्दस्य प्रचादेशः । नास्ति किञ्चनेति ॥ चनेत्यव्ययमप्यर्थे । नास्ति किमपि यस्येत्यर्थे बहुव्रीह्यपवादत्रिपदस्तत्पुरुषः । नञोऽकारस्य लोपश्च निपात्यते । 'नलोपो नञ:' इति तु नात्र प्रवर्तते । किंशब्दस्य उत्तरपदत्वाभावात् । समास चरमखण्ड एव उत्तरपदशब्दस्य रूढत्वात् । नास्ति कुत इति ॥ कुतो भयमस्यास्तीति विग्रहस्यार्थः । अकुतोभय इति ॥ बहुव्रीह्यपवादस्तत्पुरुषः । अन्यो राजा राजान्तरमिति ॥ अत्र अन्तरशब्दः अन्यपर्यायः । तस्य स्थाने अन्यशब्दो विग्रहवाक्ये ज्ञेयः । नित्यसमासत्वेन